________________
दिनकरोभयमर्कसुतो रुजं क्षितिसुतो विदधासभिघातनम् । विकलतां मरणं यदि वा नृणामुशनसः कुरुते शशलाञ्छनः॥४०॥ पश्यसेकश्वेच्छुभश्च स्वमुच्चं लग्नप्राप्तं खचरं प्रश्नकाले। स्थानैश्वर्यार्थोच्चयो मानद्धिर्वाच्यः निःसन्देहमेवाततज्ञैः ॥४१॥ यदि विलग्नगमुच्चगतग्रहः समवलोकयति ग्रहमुच्चगम् । भवति तत् समये समुपेयुषः सपदि राज्यमिति प्रवदेतदा ॥४२॥ आरोग्यस्य प्राप्तिमर्थस्य लाभं वादोज्जित्वं सङ्गमत्वं प्रियेण । सौम्या केन्द्रस्थायिनःखेचरेन्द्रा कुर्वन्यन्ये त्वन्यथा सर्वमेतत् ४३
इति शुभाशुभादेशः॥
पापैः सुतारातिगतैर्नभोगैर्निवर्त्तते मार्गत एव शत्रुः । चतुर्थवेश्मोपगतैःपुनस्तैः प्राप्तोऽप्यरातिर्भजते निवृत्तिम् ॥४४॥ क्षितिसुतो यदि वा रविनन्दनःसुखगतःकमलिन्यधिपोऽथवा । रिपुबलं न समेति तदाबुधः त्रिदशपूज्यसितैःपुनरन्यथा ॥४५॥ स्थिरगते शशभृत्युदये चरे भवति नागमनं विशतो यदा। नियतमागममस्य तदा वदेदिति विपर्ययतस्तु विपर्ययः॥४६॥ व्ययत्रिपञ्चद्विषडेकवर्तिनो भवन्ति लग्नादशुभग्रहाः यदि । तदा समागच्छति विद्विषाम्बलं चतुर्थराशौ न तदागमं विदुः ४७ स्थिरेमिश्रेऽथवा लग्ने शीतभानौ द्विसंश्रये । मुद्रमागतेप्यस्मिन्नरातिर्विनिवर्त्तते ॥ ४८ ॥ रिपुश्चरे चन्द्रमसि द्विसंश्रये विलग्नगे वार्द्धमितो निवर्तते । द्विधाभवसागमनं विर्यये पराजयःक्रूरविलोकिते पुनः ॥ ४९ ।। चतुर्थवेश्मोपगतौ यदार्कमन्दौ तदाभ्येति न वैरिचक्रम् । इन्दुज्ञशुक्रा हिबुके यदि स्यु स्तदाशु तस्यागममामनन्ति ॥५०॥
१ गभणान्विषतो। २ दितिम> यस्तु विभय॑यः ।
Aho ! Shrutgyanam