________________
( १३२ ) पीयूषांशौ पापयुक्ते सिते वा स्त्रीभिःसार्द्ध विग्रह कीर्तनीयः । पापैर्यस्मान्मन्मथस्थानयातै सरेवाम्बुस्थानगैर्वासवाच्यः ॥२८॥ उदये यदि क्षितिसुते भृगुजं प्रविलोकयेद्रनिताया कलहम् । कथयेदथार्कतनयस्य वदेड्ने तथा सपदि गर्भहतिः ॥ २९ ॥ अरुणं विलोकयति केन्द्रगतस्तपनात्मजो भवति चौरभयम् । विपदङ्गणाभिरथवा कलहः सुमहान् प्रजायत इति प्रवदेत्॥३०॥ नाशोऽर्थस्य व्याधयो भीतिरुग्रा पश्यत्युष्णज्योतिसंभानुपुत्रः । लग्नस्थे वा पङ्कजानामधीशे निःसन्देहं वाच्यमेतत् समग्रम्॥३१॥ मैत्रीकार्य वृद्धिमर्थ जयं वा मित्रक्षेत्रं वीक्ष्यमाणः करोति । निःसन्देहं खेचरःपृच्छकस्य व्याचष्टे च प्रायशो नष्टलाभम्॥३२॥ गुरुसितौ यदि युग्ममधिष्टितौ क्षितिसुतस्तु नभस्युदये बुधः। विजयराज्यधनानि यथास्थिति नियतमेव तदा लभते नरः॥३३॥ यदि पृच्छतो भवति लग्नगतस्त्रिदशाचितो दिनपतिर्दशमे । लभते तदाविजयराज्यधनान्यधिकान्यसौ निखिलमन्यदापि ३४ उदयास्तमयोः स्थितयोः शुभयोस्पहजाम्बरवर्तिभिरप्यशुभैः। प्रणमन्यरयो लभते च तथा बहुसारमथार्थचयं पुरुपः ॥ ३५ ॥ उद्यच्छन्तं यद्यनुष्णांशुमूर्ति पापः पश्येन्मध्यवय॑म्बरस्य । स्थानभ्रंशं मृत्युमर्थप्रणाशं पुंसाकिवातं कमुग्रं विधत्ते ॥ ३६॥ पृष्टोदये स्याद्यदिधर्मसंस्थः पापो भवेदात्मजसंस्थितो वा । नाशस्तमक्षिप्रमिहास्ति नून मितोपसर्पति वदेत् तदाशु ॥३॥ द्वादशे यदि भवन्ति विलनाल्लाभधाम्नि यदि वा सुरसौम्याः । कार्यघातमखिलार्थविनाशं भ्रंशमस्य वितरन्ति तदानीम्॥३८॥ हिवुकगःकुरुते धनसक्षयं धनगतो विदधाति च बन्धनम् । रुजमिहव करोयशुभग्रहो व्ययविलग्नगतो मरणं नृणाम् ॥३९॥
१ स्यावदेधुचते । २ निखिलमित्यादपि । ३ श्रिणोवा ॥
Aho! Shrutgyanam