________________
( १३१ )
वृद्धिश्चतुर्थ भवनान्मदनान्निवृत्ति लग्राच्च्युतिः प्रसवनं दशमक्षतश्च । पृच्छाविलग्नसमये खचरैश्च वाच्यः मातो ग्रहःहिबुकवेश्मनि तु प्रवासी ॥ १७ ॥ वृषतुलाघटकेशरिणः शुभैर्यदि भवन्ति नभः सुविलोकिताः । तनुभृतां कथयन्ति शुभं तथा बलभृतो यदि चोदयमिश्रिताः १८ नाशोनाद्यः पापदोर्हिनहीनौ सन्देहः स्यान्नापिमृत्युश्च मृयौ । व्याधेर्यद्वा सम्भृतस्योपशान्तिः स्थानं प्राप्तेस्वेषुमे शूरणाख्य५१९ कन्या मेषो वृश्चिकः कर्कटोवा मध्यं व्योम्नः संश्रितः सौम्यदृष्टः । नष्टस्यार्थस्याशु नाशं विधत्ते रोगान् पृष्टःक्षिममुत्थापयेच्च ||२०|| केन्द्रत्रिकोणोपगतैः शुभाख्यैः पापैस्तथा कण्टकरन्ध्रमुक्तैः । ब्रूयान्नराणामखिलार्थसिद्धिं विपर्य्यटाः स्यात्पुनरन्यथा तैः ॥ २१ ॥ शुभाश्वरायास्त्रिमदायखस्थै खेक्षितास्ते शुभमङ्गणोर्थम् । पापं त्रिधम्मदियरन्ध्रधीषु कार्य्यार्थहानिःशुभदाः शुभास्तु ||२२|| शुभाश्वरायास्त्रिधनेषु सिध्यै पापं पुनर्देष्टफलं प्रदिष्टम् । नृराशयःकुम्भतुलानृयुग्मकन्याः शुभन्तेषु वदेद्विलग्ने || २३ || स्थानदाश्चरणभोगदाश्शुभाः लग्नधीधनयुजोर्थमानदः । नेष्टदाः स्युरशुभव्ययायगा लग्न इन्दुरशुभः सगोम्बरे ॥ २४ ॥ इन्दौ द्विष्टमिदायखस्थे जीवे क्षिते स्याच्छुभमङ्गणोऽर्थम् । पापास्त्रिधम्र्मोदयरन्ध्रधीषु कार्य्याथहानिःशुभदाः शुभास्तु ||२४|| उदयगशशिनः सुतमाक्ष्यते हिमरुचिर्यदि वा खचरोऽशुभः । विजयभूरिधनाप्तिमिहादिशेनच शुभं पुनरत्र भविष्यति ॥ २६ ॥ सितरुचि हिमगोरथवा सुतं यदि विलनगतं भृगुनन्दनः । समवलोकयति स्त्रियमुत्तमां श्रियमसौ लभते नियतं सदा ||२७||
१ युतिः ।
२ वर्ष । ३ शुभमणेक्षम् । ४ हान्यै ।
Aho! Shrutgyanam