________________
( १२५ ) गोपुच्छस्थे वल्मीकगेऽथवादर्शनं भुजङ्गस्य । सद्यो ज्वरो महिषगे वाशति गुल्मे फलं स्वल्पम् ॥ ४१ ॥ कार्यस्य व्याघातस्तृणकूटवामगेऽम्बुसंस्थे वा । शुष्केऽग्निप्लुष्टेऽशनिहते च काके वधो रुवति ॥ ४२ ॥ कण्टकिमिश्रे सौम्ये सिद्धिःकार्य्यस्य भवति कलहश्च । कण्टकिनि भवति कलहो वल्लीपारिवेष्टिते वन्धः ॥ ४३ ॥ छिन्नाग्रेऽङ्गच्छेदः कलहःशुष्कद्रुमस्थिते ध्वाक्षे । पुरतश्च पृष्टतो वा गोमसंस्थे धनप्राप्तिः ॥ ४४ ॥ मृतपुरुषाङ्गावयवस्थितो ऽग्रतो वाशको ऽतिमृत्युकरः । भानस्थिच चश्चा यदि वाश्यते ऽस्थिभङ्गाय ॥ ४५ ॥ रज्ज्वस्थिकाष्टकण्टकिनिःसारशिरोरुहानने रुवति । भुजगगजदष्ट्रितस्करशस्राग्निभयान्यनुक्रमशः ॥ ४६ ॥ सितकुसुमाशुचि मांसाननेऽर्थसिद्धिर्य्यथोप्सिता यातुः। धुन्वन् पक्षाद्धीननेच विघ्नं मुहुः कणति ॥ ४७ ॥ यदि शृङ्खलां वरत्रां वल्ली वा यदा वाश्यते बन्धः । पाषाणस्थेच भयं क्लिष्टापूर्बाध्विकयुतिश्च ॥ ४८ ॥ अन्योन्यभक्षसंक्रामितानने तुष्टिरुत्तमा भवति । विज्ञेयःस्त्रीभालो दम्पसोर्वाशतोयुगपत् ॥४९॥ प्रमदाशिर उपगतपूर्णकुम्भसंस्थेनाङ्गनार्थसम्प्राप्तिः । घटकुट्टने सुतविपत् घटोपदहनेऽन्नसम्प्राप्तिः ॥ ५० ॥ स्कन्धावारादीनां निवेशसमये रुवंश्चलत्पक्षम् । सूचयतेऽन्यस्थानं निश्चलपक्षस्तु भयमात्रम् ॥ ५१ ॥ बन्धःमूकरसंस्थे पङ्काक्त मूकरे द्रिके ऑप्तिः।
१ वाशीत । २ वामगेम्बु । ३ रुवति। ४ तस्थ । ग्रतोवासको मृतुकरः। ६ वशति । ७ वसति । ८वाशते ।
Aho ! Shrutgyanam