________________
( १२४ )
सौम्यायां परमान्नाशनं तुरङ्गाम्बरप्रप्तिः ॥ २९ ॥ ऐशान्यां सम्प्राप्तिर्धृतंपूर्णानां भवेदनडुहश्च । एवं फलं गृहपतेर्गृहपृष्टसमाश्रिते भवति ॥ ३० ॥ गमने कर्णसमश्चेत् क्षेमायनकाय्र्यसिद्धये भवति । अभिमुखमुपैति यातु विशन्विनिवर्तयेद्यात्राम् ॥ ३१ ॥ वामे बाशित्वाद दक्षिणपार्श्वेऽनुवशते यातुः । अर्थापहारकारी तद्विपरीतोऽर्थसिद्धिकरः || ३२ ॥ यदि वाम एव वशन्मुहुर्मुहुर्यायिनोऽनुलोमगतिः । अर्थस्य भवतिसिद्धिः प्राच्यानां दक्षिणश्चैवम् ॥ ३३ ॥ वामः प्रतिलोमगतिर्वाशन् गमनस्यविघ्नकृद्भवति । तत्रस्थस्यैव फलं कथयति यद्वाञ्छितं गमने ॥ ३४ ॥ दक्षिणविरुतं कृत्वा बामे वाश्येद्यथेप्सितार्थाप्तिः । वाशन् पुरोतं याति वाग्रतोऽर्थागमोऽतिमहान् ॥ ३५ ॥ प्रतिवाश्य पृष्टतो दक्षिणेन योयाद्भुतं क्षतजकर्त्ता । एकचरणोर्कमीक्षन् विरुवंश्च पुरो रुधिरहेतुः ।। ३६ ।। दृष्ट्वार्क मेकपादस्तुण्डेन लिखेद्यर्दा स्वपिच्छाङ्गम् । परतो जनस्य महतो वधमभिधत्ते तदा बलिभुक् ॥ ३७ ॥ सस्योपेते क्षेत्रे वाशति शान्तोऽतिसस्यभूलब्धिः । आकुलचेष्टो वाशन् सीमान्ते क्लेशकृद्यातुः ॥ ३८ ॥ सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभिमधुरेषु | सक्षीराब्रणमुस्थितमनोज्ञवृक्षेषु चार्थकरः ॥ ३९ ॥ निष्पन्नसस्यशाद्वलभवनप्रासादहर्म्यहरितेषु ।
धान्योच्छ्रयप्रभूतिषु शस्तेषु रुवन्धनागमकृत् ॥ ४० ॥
१ तरङ्गाम्बरप्राप्तिश्च । २ ऐश्यान्यं । ३ घृतपूर्व्वान्यासालब्धिः रुदाति । ३ सिद्धिदो । ५ वासत् । ६ वास्ति । ७ सिद्धिप्रस्थानम् । ८ श्वपिच्छाङ्गम् 1 ६ वाशानि ।
Aho! Shrutgyanam