________________
( १२० )
यस्य तस्य गृहं शुकैर्वृषभैः समलङ्कृतम् । नरो वा लभते नारीं नारी वा लभते पतिम् ॥ ३० ॥ काकं गृद्धं कपि श्येनं गोधां वा सूकरं तथा । स्वप्नान्ते यदि यः पश्येयानं तस्य निर्दिशेत् ॥ ३१ ॥ खर्व्वनोच्चतळारोहः प्रशस्तः स्वप्नवेदिभिः । अन्यत्र ल्यववाल्मोकमहिषोष्टखगदितः ॥ ३२ ॥ यद्यत् श्वेत वर्णेन पूजितं सर्व्वमेव तत् । तक्रकर्पासभस्मास्थि भक्तं तत्र विवज्र्जयेत् ॥ ३३ ॥ कृष्णवर्णन्तु यद्द्रव्यं गर्हितं सर्व्वमेव तत् । अन्यत्र पर्व्वतान्भूमेः करिणःसलिलालयात् ॥ ३४ ॥ रक्तवर्णन्तु यद्द्रव्यं तत्स नःप्रशस्यते ।
अन्यत्र शोणितान्मांसाव प्रचालात्पद्मचन्दनात् ॥ ३५ ॥ आधे वर्षाद्वत्सराद्वा द्वितीये या पाको वर्षपादात्तृतीये मासात्पाकः शर्व्वरी पश्चिमांशे सद्यःपाको गोविसर्गेषु दृष्टः ।। ३६ ।। दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात् पश्चाददृष्टो यः स पापं विधत्ते । शस्तं ब्रूयाद्यज्ञसाधुद्विजेभ्यः तेत्वाशीभिः पूजयेद्युक्तदुग्धैः ॥ ३७ ॥ भूयो वा स्वपनं न चास्य कथनं गङ्गाभिषेको जपः शनिःस्वस्त्ययनं निसेवनविधिः प्रातर्गवाश्वत्थयोः । विभाणाञ्च तिलान्नपानकुसुमैः पूजा यथाशक्तितः पुण्यं दैवनकीर्तनञ्च कथितं दुःसमविध्वसनम् ॥ ३८ ॥ इतिस्वप्ना देशोनामाष्टादशोऽध्यायः ।
१ भूयोमास्वतान्तवास्य ।
Aho! Shrutgyanam