________________
( ११४ ) गुह्ये राजभयं प्राहुजघने स्थानविच्युतिम् । उदरे कीर्तिनिर्वेदौ पार्श्वयोर्व्यसनामयौ ॥ १८ ॥ स्तनयोःमीतिशोकौं च वक्षसि प्रियसङ्गमः । कक्षयोरर्थलाभञ्च दासहानिञ्च निर्दिशेत् ॥ १९ ॥ पृष्टयोश्चौरभीतिञ्च लाभःस्याद्वाहनस्य च ॥ हस्तयुग्मोदरे वस्तुहानिर्वन्धुसमागमः ॥ २० ॥ तयोरेव च पृष्टे तु श्रियश्च विपदं वदेत् । मित्रलाभञ्च पुत्राप्ति मुभयोर्हस्तदण्डयोः ॥ २१ ॥ क्रकाटिकायां क्षेमं स्यात् कण्ठे यात्रा विधीयते । गण्डयोनष्टलाभञ्च लव्यहानिश्च निश्चयात् ॥ २२ ॥ चुबुके बाष्पपर्यन्तं शोकमेवं विनिर्दिशेत् । नासिकायां वपुर्बाहु दृशोरप्रियदर्शनम् ॥ २३ ॥ कर्णयोःप्रीतिवाक्यञ्च बन्धुनाशश्च निर्दिशेद । ललाटे राजसम्मानमुत्तमाङ्गे धनागमम् ॥ २४ ॥ यावदुत्पातविलयस्तावदेव फलोदयः । ददणिक्रिमिरेखायाः गोपमार्गोप्यदः फलम् ॥ २५ ॥
इति तिलकादेशः॥
स्यन्दते दक्षिणाङ्गस्य फलं वक्ष्ये यथाक्रमम् । यथोक्तविपरीतेन वामाङ्गस्यन्दने फलम् ॥ २६ ॥ पृथिवीलाभमाचष्टे शिरसि स्यन्दने ध्रुवम् । ललाटे स्थानबृद्धिः स्याञ्चिलयां प्रियसमागमः ॥ २७ ॥ शङ्के व्यवसनलाभञ्च श्रवणे श्रवणप्रिम् ।
शान्ते वस्तुलाभः स्यादुन्मूले मानसी व्यथा ॥ २८ ॥ । भीह। २ स्याचिल्यं ।
Aho ! Shrutgyanam