________________
दक्षहस्तेऽर्थलोपश्च स्थानभ्रंशस्ततोऽन्यतः । प्रोड्योज पालामौ शे.कहो तर्श्वयोः ॥ ७॥ अंशयोःकोर्तिलाभौ च कण्ठे विग्रहनिग्रहौ ।
कटिकायाश्चद्दक्षांशे शोको रोगो परांशके ॥ ८॥ चुबुके भीतिदारिद्रौ गण्डयो गदुर्यशः। अधरोष्टे मनस्तापं प्रियं स्यादुत्तरोधरे ॥९॥ नासिकापुटयोर्जातौ तापनिर्वेदकारिणौ । दृशोराधिसमाधी च कर्णयोःप्रियविप्रयौ ॥ १०॥ भ्रुवोःस्त्रीकलहक्षेपौ शङ्खयोविजयो द्वयोः। ललाटे व्याधिदारिद्रौ मूर्धि श्रीविभवी क्रमात ॥ ११ ॥
इतिमाषकोत्यातादेशः ।
दक्षपादतले जातस्तिलकस्तनयापहः । चामे निहन्ति वनितां कुरुते च सुहृत्क्षयम् ॥ १२ ॥ असितो वा सितोवापि पोतो वा रक्त एव वा। पुष्परुपो नखेष्वङ्कः स उत्पात उदाहृतः ॥ १३ ॥ रक्तासितावधिफलौ पीतश्वेता तु मध्यमौ । दक्षिणे चरणाङ्गुष्टे कलङ्को वित्तलोपकृत् ॥ १४ ॥ द्वितीये विग्रहं प्राहु स्तृतीय मानसामयम् ।। चतुर्थे प्रियमाचष्टे पञ्चमे पुत्रसम्पदम् ॥ १५ ॥ यथोक्तविपरीतेन वामपादे फलं वदेत् । पादयोर्विपरीतेन फलें करनखेषु च ।। १६ ।। पीडां पितुश्च मातुश्च पादयोःपृष्ट नां वदेत् । जङ्घयोर्व्यसनानन्दौ सक्योरग्निभयं द्वयोः ॥ १७ ॥ १ वधिफलौ। २ करणकेषु । ३ रग्निभयोदयो ।
Aho! Shrutgyanam