SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ( ११२ ) चतुर्थे सौदरौ हस्तौ सपृष्ठं हृदयं ततः । षष्टे कण्ठःसकक्षास्यः सकपोलश्रुतिः परम् ॥ ४८ ॥ अष्टमे घ्राणदन्तोष्टाः नवमे भ्रूललाटिकाः । दशमे तु शिरःतत्तद्रङ्गकेषु च लोमजम् ॥ ४९ ॥ पाणियुग्मे च या रेखा पदयुग्मे च कीर्त्तिता । यानि लक्ष्मानि दुष्टश्च तत्तत्फलति सर्वदा ।। ५० ।। भूवारिवह्निवायूनां छायापीतारुणासिता । पाण्डरश्चेति तत्रान्ते न शुभे तु शुभे परे ॥ ५१ ॥ इत्याङ्गलक्षणादेशोनाम षोडशोऽध्यायः । सप्तदशोऽध्यायः । 9 माषकस्तिलकः स्यन्दः प्लोष्यश्चकण्डुतीयथ । प्रकाश्यन्ते समासेन पञ्चोत्पाताः शरीरजाः ॥ १ ॥ गर्भोत्थितस्य तल्लक्ष्म प्रकृतं तदुदाहृतम् । प्रकृयन्यत्वमुत्पातः पञ्चैते प्रमुखास्ततः ॥ २ ॥ धनक्षयं वितनुते मापको दक्षिणे पदे । स्त्रोविप्रयोगं वामे तु जङ्घयोर्थसम्पदौ ॥ ३ ॥ जान्वौ मारिवृद्धिश्च सक्यौ स्त्रीलाभविग्रहौ । वृपणे धनधान्ये च कोशे कोशजयोजयौ ॥ ४ ॥ बन्धुवित्तविलोपौ च द्वयोर्जघनभागयौ । सव्योदरे रिपुत्रासः श्रेयो वामोदरे भवेत् ॥ ५ ॥ स्तनयोरर्थमित्राप्तिः पार्श्वयोः मरणामयौ । कक्षयोःशोकदैन्येव पृष्टयोरपीडनम् ॥ ६ ॥ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy