________________
ग्रहध्रुवाधिकारः ।
अथ ग्रहध्रुवाधिकारः।
वर्षाधिप विधिःशास्त्राब्द सौराब्द गणात्कलेवा वर्षाधिपाः सप्त हृतावशेषाः । शुक्रेन्दुवाचस्पति सूर्यसौम्याः
शनिश्चरारौ क्रमशो भवन्ति ॥ १॥ सं० टी०-शास्त्रं भास्वती तस्यादिः शास्त्रादिरिति शास्त्रादि सौराब्दगणाद् अब्दपिण्डाद् अथवागत कलिवर्षात् सप्तावशेषे सति गत वर्षाधिपतिः शुक्रेन्दुवाचस्पतीति कमेण वर्षाधिपतिर्भवति यथा-शून्यशेषेशुक्र एकेनचन्द्रः द्वाभ्यांगुरुत्रिभिः सूर्यः चतुभिर्बुधः पञ्चभिः शनिः षड्भिः भौमः क्रमेण ज्ञेयम् । प्रकारान्तरेण शास्त्राब्दपिण्डमेकविशतिभिरूनितं कृत्वाष्टषड्भिहरेत् यल्लब्धन्तेनैकोनेनयु. तोवर्षाधिपतिः। बाब्दपिण्डमनुनितमष्टषभिर्भजेल्लब्धान्वितो वर्षाधिपतिर्ब्रह्मसिद्धान्ततुल्यः सावनवर्षाधिपशुक्रेन्दुवाचस्पतीति क्रमेण भवतीति सूर्यसिद्धान्ते प्रदर्शिताः गोलक्रमेण शनीवारोकोशनेन्दुजेन्दव इति ॥ अत्र करणारम्भे शुक्रो वर्षाधिपतिरभृत्तस्माच्छुक्रादिगणना कृताशुक्रात्तृतीयः चन्द्र, चन्द्रात्तृतीयो गुरूरित्यादि ॥१॥
Aho ! Shrutgyanam