________________
भास्वत्याम् ।
इत्यथैः, लब्धाङ्कः तुल्यगत खण्डको धायः तदग्रिम भोग्य खण्डकः स्थाप्यः भोग्योद्भव युक्तहीना भुक्त भोग्य मध्ये यो यस्मिन् पतति सः तस्मिन् पातनीयः शतभागशेष खण्डान्तरेण संगुण्य शतेन भजेद् यल्लब्धं तद् यदि गतखण्डाद्भोग्य खण्डकोऽधिकः तदा भुक्त खण्डके योज्यं, यदा भुक्तखण्डाद् भोग्य खण्डको न्यूनः तदा भुक्त खण्डके न्यूनं कर्तव्यं, यदान्तिम खण्डको लभ्यते तदान्तिम खण्डैवान्तरो भवति, यदा शतभागात खण्डा न प्राप्यते तदा प्रथमखण्डैवान्तरो भवति । शतभाग शेषमन्तरेण संगुण्य शतेन भजेल्लब्धमशादिकं मन्दफलं भवति । तत्कलं घनागनागत्रय सूर्यनिघ्नाद् गुणीताद् दशोतं दशभिर्विभाजितं फलं षड्भोन केन्द्रे सति मध्ये मध्यमग्रहे ऋणं स्यात् , यत्र षडू भाधिके चेद् धनं कार्यम् , कृते सति मन्दस्फुटा ग्रहा भवन्ति । मन्दस्फुटा ग्रहाः पृथक् स्थान द्वये स्थाप्या एकत्र वशीघेणोनाः ( यदा न पतति तदा द्वादशशतं संयोज्य पातयेत् ) शेषं शीघ्र केन्द्रो भवति । अत्रापि मन्दफलवच्छ्रीघ्रफलं ज्ञेयम् , यत्र शतभागेन पञ्चमखण्डको लभ्यते तत्र लब्धं पृथक् संस्थाप्य शेषं त्रिभिः सं. गुण्य शतेन हरेद् यल्लब्धं तत्पृथक् स्थापिते संयोज्य योजिते सति यावत्सङ्ख्यको भवति तावत्सङ्ख्यको भुक्त
Aho! Shrutgyanam