________________
८५
ग्रहस्पष्टाधिकारः । षड्भादिकाः चक्रगणाद् विशोध्याः
शतेन लब्धाः स्फुटमत्र खण्डाः ॥४॥ रुद्रा नवेन्दु द्वियमा नवेन्दु
रुद्राश्च भोग्योद्भव युक्त हीनाः । षड्भोन केन्द्रे खचरे ऋणं स्यात्
षड्भाधिके चेत् धनमत्र कार्यम्॥५॥ घनाग नाग त्रय सूर्य निघ्नाद्
दशोद्धृतं हीन धनं च मध्ये। पृथक् स्वशीघ्रोनित केन्द्र खड्भात् विघ्नात्वशीघ्रोनयुतःस्फुटःस्यात्॥६॥
सं० टी०--वीज देशान्तर संस्कारित भौमादि. ग्रहाः पृथक् स्थान द्वये स्थाप्या एकत्र, अष्टेषु षट् नन्द चतुश्शताढ्याः कर्तव्याः । भौमोऽष्टशताधिकः, बुधः पञ्चशताधिकः, गुरुः षट्शताधिकः, शुक्रो नवशताधिकः, शनिः चतुश्शताधिकः कार्यः, ते षड्भ गतैष्य केन्द्रा भवन्ति, चेत् षड्भाधिकाः चक्रगणमद् विशोध्याः, ( द्वादशशताधिके द्वादशशतैः प्रयात्य शेषं गतगम्य केन्द्रो भवति ) अत्र शतेन लब्धाः क्रमशः रुद्रा नवेन्दु द्वियमानवेन्दु रुद्राश्चेति खण्डा स्फुटम् लभ्यत
Aho! Shrutgyanam