________________
१२२
॥ श्रीअर्जुनपताका ॥
व्याख्या-वीरो जयतीत्यन्वयः विशेषेण ईरयति गच्छति कर्मशत्रुजयाय सन्मुखतया, कंपयति वा कर्मशत्रूनिति वीरः, ईरगतिकंपनयो पचाद्यच कर्मशत्रुसमूहजेतृत्वाद्दर्शितपराक्रमत्वेन वीरयते इति वा वीरः. वीरविक्रांती, पचायच् पदैकदेशे पदसमुदायोपचारात् श्रीमहावीरश्चतुर्विन्श तितमो जिनो जयति उत्कर्ष प्राप्नोति, जि जयेऽकर्मकोऽयं धातुः, पंचमारकपर्यंतं यावद्विद्यमानशासनत्वेन वर्तमाने लट्. मंगलार्थं च प्रथम जयतीति पदप्रयोगः, न मस्कारश्चाक्षितः, यथा जयतौद्रियकषायकर्मपरीष होपसर्गादिशत्रुगणपराजयात्सर्वानप्यतिशेते उत्कर्ष प्राप्नोति, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामेवश्यं प्रणामाहैः, ततो जयतीति. किमुक्तं भवति ? तंप्रति प्रणतोऽमीत्यर्थः , किंविशिष्टो वरिः ? नवनलिन कुवलय विकसितशतपत्रपत्तलदलाक्षः, नवं नवीनं, यन्नलिनं सूर्यविकासिकमलं, पुनः कुवलयं चंद्रविकासीकभलं, पुनः विकसितं च तत् शतपत्रं, शतशब्दोऽत्र बहुत्वोपलक्षकस्तेन सहस्त्रपत्रादेरपि परिग्रहः . अथ सनास:नलिनं च कुवलयं च नलिनकुवलये, नवे च ते नलिन कुवलये च नवनलिनकुवलये, विकसितं तत्शतपत्रं च विकसितशतपत्रं, नवनलिनकुवलये च विकसितशतपत्रं च नवनलिनकुवलयविकसितशतपत्राणि, तेषां पत्तलं तीक्ष्णं यद्दलं पत्रं तद्वदक्षिणी नेत्रे यस्य स नवनलिनकुवलय. विकसितशतपत्रपत्तलदक्षः. बहुव्रीही सक्थ्यक्ष्णोः स्थांगात्वजिती षच् , पत्तलशब्दोऽत्र तीक्ष्णवाचकः . यदुक्तं देशीनानमालायां श्रीहेमसरिभिः'पत्तलपडुवइआ तह । पत्तसमिद्धं च तिख्खमि ॥' तथा च तवृत्तिःपत्तलं पडुवइयं पत्तसमिद्धं एत त्रयोऽपि तीक्ष्णार्थाः, पत्तलं पत्रबहुलमिति तु पत्रलशब्दभवमिति. भगवच्चक्षुषोरहोरात्रविकासित्वादु भयोः सूर्यविकासिचंद्रविकासिकपलयोरुपमानत्वमुक्तं. पुनः फिविशिष्टो वीर: ? प्राकृतत्वाद्विशेषणस्य परनिपातत्वान्मदकलगजेंद्रसुललितविक्रमः, मदेन कलो मनोहरो मदकलो मदोत्कट इत्यर्थः, मदोत्कटो मदकल इति श्रीहेमसूरिः. एवंविधो यो गजेंद्रः सकलगजलक्षणोपेतत्वेन गजेषु इंदति परमैश्वर्यं भजतीति गजेंद्रः सकलगजश्रेष्टः, तद्वत् सुअतिशयेन ललिता मनोहरा या गतिस्तया विशिष्टं कामति गछतोति मदकलगजेंद्रसुललितगतिविक्रमः . पुनः किंविशिष्टो वीरः १ भगवान् , भगो ज्ञानाद्यर्थः, स नित्यमस्यातिती भगवान् . भगोऽज्ञान माहात्म्य-यशोवैराग्यमुक्तिषु॥
Aho ! Shrutgyanam