________________
॥ श्रीअर्जुनपताका ॥
परिशिष्ट नं. २ ॥ अथ श्रीमहावीर जिनस्तोत्रं प्रारभ्यते ॥ (मूलकर्ता-श्रीपादलिप्तसूरिः. टीकाकार-श्रीपुण्यसागरवाचकः)
प्रणतसुरनरालिवातपादारविंदं । विदितसकललोकालोकसदज्ञेयवृंदम् ॥ सविनयमथ नत्वा वधनानं जिनेशं ।
किमपि विरचयेऽहं तत्स्तवस्यार्थलेशम् ॥ १॥ पूर्व तावत् श्रीपादलिप्तसूरयोऽनेकयोगसिद्धा महांतः प्रभावकपुरुषा आसन्, तदन्वये सकलज्ञानविज्ञानविज्ञाः श्रीपुण्यतिलकसूरयो विहरंतोऽवंतीपुयाँ समेताः. तत्र च श्रीविधिपक्षगछाधिराजसरखतीलब्ध प्रसादश्रीमन्महेंद्रसिंहसूरयः संति, तेषां महिमानं सकलनागरिकजन निकरवदनकमलालंकारायमानं श्रुत्वा विद्यामदध्मातचित्ताः श्रीपुण्यतिलक सूरयो वादलिप्सया श्रीगुरुसमीपमागताः तैरुक्तं च भी मया सह बादो विधेयः. तदा श्रीगुरुभिरुक्तं ? किं वृथायासेन वादेन? प्रयोजनमनुद्दिश्य मंदधियोऽपि न प्रवर्तते. तदा श्रीपुण्यतिलकसूरिभिरुक्तं किं वृथायासः ? यो यं जयति स तं शिष्यीकरोतीत्यावयोः संधा, तदा गुरुभिरंगीकृतं, प्रारब्धश्च वादः, श्रीगुरुभिमुहूर्तादेव ते जिताः. ततः श्रीपुण्यतिलक-- सूरयः स्वं धन्यं मन्यमानाः श्रीगुरून् प्रणम्य संस्तूय च शिष्या जाता. श्रीगुरुभिरपि तेषां महत्त्वरक्षणार्थं दीक्षां दत्वा शाखाचार्यत्वे स्थापिताः. तत्पूर्वजानां च श्रीपादलिप्तसूरिणां विरचितमिदं वीरजिनस्तोत्रं सप्रभावं पहुयोगसिद्धिसंपन्नं दृष्टा श्रीसप्तस्मरणमहास्तोत्रेषु तृतीयमहास्तोत्रं स्थापितं, महत्त्वं चास्य स्तोत्रस्यानेकयोगसिद्धिमहत्वेन समहिमत्वेन च ज्ञेयं, श्रीउपसर्गहरस्तोत्रवत् , तदन्वये चाद्यापि नवीनशिष्यस्य दीक्षां दत्वा प्रथममिदं स्तोत्रं पाठयंतीति. अस्य प्रथमगाथामूलम्-जयई नवनलिणकुवलय-वियसियसयवत्तपत्तलदलच्छो॥
वीरोगइंदमयगल-सुललिअगइविकमो भयवं ॥१॥
C
Aho ! Shrutgyanam