________________
॥ श्री अर्जुनपताका ॥
■
रूपबुद्धिप्रयत्नेछा - श्रीधर्मैश्वर्ययोनिषु ॥ १ ॥ इति श्री हेमसूरिः तत्रार्कयोनिवर्ज द्वादशभगशब्दार्थयुक्त इत्यर्थः ॥ १॥ अथ श्री वीरं कविराशिषति
मूलम् - अज्जवि वहई सुतीत्थं । अखंडियं जस्स भरहवासंमि ॥
सो वृद्ध माणसामी | लुक्कदिवायरो जयउ ॥ २ ॥
व्याख्या - स वर्धमानस्वामी श्रीवीरजिनो जयतु सर्वोतकर्षेण प्रवर्ततां. किंविशिष्ट वर्धमानखामी ? त्रैलोक्यदिवाकरः, त्रय एव लोकास्त्रैलोक्यं, चतुर्वर्णानां खार्थे ष्यञ् वाच्य इति ष्यञ् स्वर्गमर्त्यपातालरूपं, तत्र दिवाकर इव दिवाकरः सूर्यः केवलज्ञानेन तस्य प्रकाशकत्वात्, त्रैलोक्यदिवाकरः स क ? यस्य वर्धमानस्वामिनः सुतीर्थ तीर्यते संसारार्णवोऽनेनिति तीर्थं चतुर्विधः संघः सकलशुभगुणोपेतत्वेन शोभनं तीर्थं सुतीर्थ अद्यापि दुःषमकालेऽपि अखंडितमविछिन्नं परतीथ्यादिखंडनारहितं भरतवर्षे भरतक्षेत्रे वहति, धातुनामनेकार्थत्वात्प्रवर्तत इत्यर्थः अथाभिधेयं वक्तिमूलम् - गाहाजुअलेण जिणं । मयमोहविवज्जियं जियागंगं ॥ थोसामि तिसंघाएण । तिण्णसंगं महावीरं ॥ ३ ॥
"
१२३
#
व्याख्या - अहं पादलिप्तसूरिर्महावीरं जिनं त्रिसंघातेन, त्रयाणां मनोवाक्कायानां संघातः समुदायस्त्रिसंघातस्तेन त्रिकरणशुद्धया स्तोष्यामि स्तुतिगोचरं करिष्यामित्यर्थः केन ? गाथायुगलेन, विपुलाचपलाद्यार्यालक्षणलक्षिता प्राकृते बहुलं गाथेत्यभिधीयते तयोर्युगलं युग्मं तेन. किंविशिष्टं जिनं ? मदमोहविवर्जितं, आनंद संमोहयोः संगमोत्था मत्तता मदः, मदोमुन्मोहसंभेद इति श्रीहेमसूरिः स च जात्याद्यष्टप्रकारो मोहो मौढ्यमज्ञानमिति यावत, मदश्च मोहश्च मदमोहौ, ताभ्यां विवर्जितो रहितस्तं पुनः किंविशिष्टं जिनं? जितानंगं, जितः खवशीकृतोऽनंगः कामो येन. ' जियकसाय ' मित्याधुनिकः पादः, तत्र जिताः कषायाः क्रोधाद्या येन तं पुनः किंविशिष्टं जिनं । तीर्णसंगं, तीर्णः पारं प्राप्तः संगः संसारानुबंध्यभिष्वंगो बाह्यांतरभेदभिन्नो येन तं तत्र बाह्यः पुत्रकलत्रादिरूपः, आंतरश्च कर्मपुद्गलरूपः तीर्णसंसारसमुद्रमित्यर्थः, तिसंझागं तं निसंगमित्याधुनिकः पाठः, तत्र तमिती प्रसिद्धं महावीरं
·
Aho! Shrutgyanam