________________
वृत्तिसमेतम्
१९
effeवा । क्षीरं पिवतीति क्षीरपाः स्त्री ना कुलं वा । एवं ग्रामणीः यवलूः । अयं काष्ठभित् कुठारः, इयं काष्ठभित् वासी, इदं काष्ठभित् करपत्रम् । आत्मंभरिः पुरुषः, आत्मंभरिः स्त्री कुटुम्बं वा, दाक्षिः पुमान् स्त्री कुलं वा । श्रीमान् पुमान्, श्रीमती स्त्री, श्रीमत् कुलं, धर्ममनाः पुमान्, स्त्री कुलं वा, शुद्धमतिः ना स्त्री कुलं वा, सना, सा स्त्री, तत् कुलम् । द्वौ नरौ, द्वे स्त्रियौ, द्वे कुले । श्वेतः पटः, श्वेता पटी, श्वेतं वस्त्रम् । अयं सिन्धुः अब्धिः, इयं सिन्धुः, अयं गौ रश्मिः इयं गौः भूमिः अयं किष्कुः इयं कुष्कुः वितस्तिः हस्तः, अयं करेणुः हस्ती हस्तिनी वा । शरदिति किम् ? । इयं शरत् ऋतुविशेषः वर्ष च । हलन्तत्वात् स्त्रीलिङ्गमेव भवति । नित्यग्रहणं बहुलनिवृत्त्यर्थम् ।
"
स्वत आमलकबिभीतकतटभल्लातकहरीतकास्त्रिषु ति (हि) । डन्यन्ताः स्त्रियामथान्ताः शृङ्खलसविषाणनखरखल्लूराः॥२८॥
एते आमलकादयः शब्दाः, स्वत एवं नाभिधेयवशात्, त्रिष्वपि लिङ्गेषु भवन्ति । स्त्रियां ङीपूप्रत्ययान्ता भवन्ति । आमलक: आमलकी आमलकं, बिभीतकः बिभीतकी विभीतकं, तटः तटी तटं, भल्लातकः भल्लातकी भल्लातकं, हरीतक: हरीतकी हरीतकम् । शृङ्खलादयः शब्दाः स्त्रियामथान्ताः आकारान्ता भवन्ति । शृङ्खलः शृङ्खला शृङ्खलं, विषाणः विषाणा विषाणं, नखरः नखरा नखरं, वल्लूरः बल्लूरा बल्लूरम् ।
परवल्लिङ्गं द्वन्द्वे तत्पुरुषे च द्विगौ हि वाच्यमिव । अर्थान्ते च प्राद्यलमापन्नप्राप्तप्पूर्वे च ॥ २९ ॥
इन्द्रे समासे यत् परपदे लिङ्गं समासेऽपि तद्भवति । इमौ मयूरीकुकुहौ, इमे कुक्कुटमयूर्यो, इमे न्यग्रोधशिशपे, इमौ शिशपान्यग्रोधौ । तत्पुरुषे च । यत् परपदे लिङ्गं तत् समासेऽपि लिङ्गं भवति । अर्द्ध पिपल्या अर्द्धपिप्पली, अर्द्धहरीतकी, राजपुरुषः, राजदारिका, नीलोस्पलम् । द्विगौ हि वाच्यमिव । द्विगौ हि समासे वाच्यमिव लिङ्गं भवति । असमाहारार्थ आरम्भः । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः, दशकपालः । परवल्लिङ्गत्वं प्राप्तम् । अत्र अर्थान्ते च तत्पुरुषे वाव्यमिव लिङ्गं भवति । ब्राह्मणार्थ ओदनः ब्राह्मणार्था शिखरिणी,