________________
वामनीयलिङ्गानुशासनं . . षष्ठ्यादिपदाः । शालासेनासुरानिशाशब्दाः स्त्रीलिङ्गमपुंसकयोर्भवन्ति । गोशाला गोशालं, क्षत्रियसेना क्षत्रियसेनं, यवसुरा यवसुरं, भूतनिशा भूतनिशम्।
पुलिङ्गस्त्रीलिङ्गा मरीचिमणियष्टिमुष्टियोन्याणिः । त्रुटिमषिपाटलिशाल्मलितरणिश्रोण्यूमयो बस्तिः ॥२६॥
एते मरीच्यादयः शब्दाः पुल्लिङ्गाः स्त्रीलिङ्गाश्च भवन्ति । अयं मरी. चिः इयं मरीचिः रश्मिः, अयं मणिः इयं मणिः माणिक्यम् , अयं यष्टिः इयं यष्टिः अवष्टम्भनदण्डः, इयं मुष्टिः अयं मुष्टिः अङ्गुलिसङ्को. चः, अयं योनिः इयं योनिः प्रसिद्ध एव, अयमाणिः शकटकीलिका, अयं त्रुटि: इयं त्रुटिः काललेशः, अयं मषिः इयं मषिः । एवं पाटलिः शाल्मलिः तरणिः श्रोणिः नितम्बः ऊर्मिः बस्तिः।
अरणीषुधीषुतिथयः समृत्यु कर्कन्धुबाहुकण्डु तथा । संज्ञा बहुलं वाच्यवदशरन्नित्यं ह्यनेकलिङ्गार्थः ॥ २७ ॥
अरण्यादयः शब्दाः पुल्लिङ्गस्त्रीलिङ्गा भवन्ति । अरणिः अग्निमन्धनकाष्ठम् । एवमिषुधिः भस्त्रा । क्यंतत्वात्पुंस्त्वं प्राप्तम् । इषुः शरः। तिथिः प्रतिपदादिषु । कर्कन्धुबाहुकण्डुशब्दाः सह मृत्युशब्देनोभयलिङ्गा भवन्ति । अयं कर्कन्धुः बदरीकं दुःपाकस्थानं, बाहुर्भुजः, कण्डुर्गात्रघर्षणे । वाच्यवत् ।वाच्यमभिधेयं यल्लिङ्गं संज्ञायाः तेन तुल्यं संज्ञाशब्दो बहुलं भवति । शरयुः....." । श्रीकण्ठो नाम देशः, मालयको नाम देशः, मथुरा नाम नगरी, कन्यकुब्जं नाम नगरम् । ........"शार्दूलविक्रीडितम् । उपचित्रकम् । पदचतुरुद्धं नाम वृत्तम् । केषांचित् न भवति। वरेन्द्राः तीरभुक्तिर्नाम देशः । कौङ्कणं कश्मीरं नाम देशः । शालुकिनी लिङ्गाषाढी नाम ग्रामः। तैलावटं श्रीभवनं नाम ग्रामः।मालिनी स्रग्धरा आपीडः पणव इति नाम वृत्तम् । कचिवचनव्यत्ययः । गोदौ नाम हृदौ तयोरदूरभवो ग्रामः गोदौ ग्रामः । पञ्चालो नाम देशः । खलतिक नाम वनानि, खलतिकस्य पर्वतस्यादूरभवानि । कचिल्लिङ्गवचनव्यत्ययः। वर णानामदूरभवं नगरं वरणा: नगरम् । अशरनित्यं धनेकलिङ्गार्थः। नएकमने लिझमर्थोऽभिधेयं यस्य शब्दस्य स वाच्यवति, नित्यं शरदं.