________________
वृत्तिसमेतम्
प्रसवः कुसुमम्, इमौ अश्वडवौ इमे अश्ववडवाः, अभ्वाश्च वडवाति इन्छे कृते परवल्लिङ्गप्राप्तिः भवति । अनुक्रान्तो वाकोऽनयाऽनेन वा नपुंसके "वा अनुवाकः इत्यत्र " अकृर्त्तरि च कारके सज्ञायाम् ( ३-३-१९ ) ” इति नपुंसके घञ् कुर्वन्ति । तदुभयथा अयं छदः पर्णम्, अयं गरुत् पिच्छम्, अयमुच्चारः पुरीषं, "मातुरुवार एव सः " इति यथा ''''''तम् ।
विंशत्याद्येकार्था स्त्रियां तु नित्यं नपुंसकेऽदन्ता । सङ्ख्या शतादिरिष्टा द्वित्याद्यर्थे च सङ्ख्यायाम् || २५ || विंशत्याचा सङ्ख्या एकार्था भवति एकवचनान्ता प्रयुज्यते । सङ्ख्येये यां च वर्तमाना । विंशत्या पुरुषैः कुटुम्बेर्वा । एवं त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्टिः सप्ततिः अशीतिः नवतिः । अदन्ता शतादिसङ्ख्या नित्यं नपुंसके भवति । शतं पुरुषाः प्रियः कुलानि । एवं सहस्रम् अयुतं नियुतम् । अदन्तेति किम् ? | इ इयं कोटी, अयं शङ्कः सङ्ख्या । इष्टेतिग्रहणं छन्दःपूरणार्थम् द्वित्वाद्यर्थे च सङ्ख्यायाम् । विंशत्याद्यां शताद्या च सा सख्यायां वर्त्तमाना द्वित्याद्यर्थे भवति । च शब्दादेकार्था च भवति । पुरुषाणां विंशतिः विंशती तिस्रो विंशतयः, पुरुषाणां शतं द्वे शते श्रीणि शतानि । एवमादि ।
क्षा,
,
स्त्रीलिङ्गनपुंसकयोरानन्तोत्तरपदो द्विगुश्चार्चिः । षष्ठ्यादिपदाच्छायाशालासेनासुराः सनिशाः ॥ २५ ॥
आकारान्तमनन्तं चोत्तरपदं यस्मिन् द्विगौ स तथोक्तो द्विगु: समासः स्त्रीलिङ्गे नपुंसके च भवति । पञ्चखगाः समाहृताः पञ्चखद्वी पञ्चखम् । “हस्वो नपुंसके (१-२-४७)" इति ह्रस्वः । दशमाली दशमालम् । अनन्तोत्तरपदः । पञ्चतक्षी पञ्चतक्षम् । अत्र वक्तव्यादेव नकारलोपः । अनो नलोपश्च । शतराजी शतराजम् । अर्बिश्व स्त्रीनपुंसकयोर्भवति । . इयमर्चिः इदमर्चिः । षष्ठ्यादिपदाच्छाया । षष्ठ्यन्तं पूर्वपदं यस्याश्च्छायायाः सा स्त्रीलिङ्गे नपुंसके च भवति । वृक्षस्य च्छाया वृक्षच्छायं वृक्षछाया, पर्वतच्छाया पर्वतच्छायम् । पक्षे नपुंसकत्वं विधीयते । तथा
३