________________
वामनीयलिङ्गानुशासन ब्राह्मणार्थ पक्कानमिति। प्रादि-अलम्-आपन्न-प्राप्त-पूर्वे च तत्पुरुषे वाच्यमिव लिङ्गं भवति । निर्गतः कौशाम्ब्याः निःकौशाम्बिः नि:खट्दः, अतिनु काष्ठम् । परवल्लिङ्गं प्राप्तम् । अलं जीविकायै अलंजीविकः पुरुषः, आपनो जीविकाम आपन्नजीविकः, एवं प्राप्तजीविकः ।
दृश्यन्तेऽर्द्धर्चाद्याः नपि पुंसि च शङ्खपद्मसम्भोजे । भूतो ग्रहेऽथ लवणे सैन्धवमित्यनुदितं जनाज्ञेयम् ॥ ३०॥
अर्डर्चप्रभृतयः शब्दाः नपि पुंसि च दृश्यन्ते । इदमर्डर्चम् । अईर्चः । अर्द्धमृच इति विगृह्य “ऋक्षरब्धःपथामानक्षे (५-४-७४)" अप्रत्यये कृते परवल्लिङ्गत्वं प्राप्तम् । एवं गोमयः कषायः कार्षापणः कु. तपः कपाटं गृहः वज्रः अन्धकार इत्यादयः । दृशिग्रहणं प्रयोगानुस्मरणार्थम् । शङ्खपद्ममम्भोजे । शङ्खपद्मशब्दौ अम्भोजे जलजे वाच्ये नपुंसके पुंसि च भवतः । इदं शङ्खम, अयं शङ्खः । इदं पद्मम् , अयं पनः । अम्भोज इति किम् ? । अयं शङ्खः अयं पद्मः निधिः।भूतो ग्रहे। भूतशब्दः ग्रहे पिशाचे वाच्ये उभयलिङ्गो भवति। इदं भूतम्, अयं भूतः पिशाचः। ग्रह इति किम् ? । एतानि भूतानि पृथिव्यादीनि । भूतः पुरुषः, भूता स्त्री, भूतं कुलम् । अथ लवणे सैन्धवम् । लवणेऽभिधेये सैन्धवमित्येतनाम उभयलिङ्गं भवति।इदं सैन्धवम् , अयं सैन्धवः, लवणम् । लवण इति किम् ? । मैन्धवः अश्वः, सैन्धवी स्त्री, सिन्धौ भवमिति विग्रहः । नित्यं पुल्लिङ्गानां यो नपुंसके प्रयोगो दृश्यते, यश्च नित्यं नपुंसकानां पुल्लिङ्गे प्रयोगो दृश्यते, स अर्द्धर्चादित्वाद्रष्टव्यः । इत्यनेन प्रकारेण यन्मया न उदितं न कथितं तज्जनाविशिष्टलोकात् ज्ञेयमवगन्तव्यमिति।
व्याडिप्रणीतमथ वाररुचं सचान्द्रं
जैनेन्द्रलक्षणगतं विविधं तथाऽन्यत् । लिङ्गस्य लक्ष्म हि समस्य विशेषयुक्त
मुक्तं मया परिमितं त्रिदशा इहार्याः ॥ ३१ ॥