________________
वामनीषालानुशासनं . . छाया सभा हूनां सङ्घ राजार्थराक्षसादीनाम् ।। भवने च तत्समासे बन्दैकत्वाव्ययीभावौ ॥६॥
येषां बहूनां समुदितानां सतां छाया भवति, तेषां सम्बन्धिनी छाया तैव सह समासे नपुंसकलिङ्गं भवति । शलभानां छाया शलअच्छायम, इषुच्छायं, धनुच्छायम् । बहूनामिति किम् ? । वृक्षस्यच्छाया वृक्षच्छाया वृक्षच्छायम् । नित्यं नपुंसकार्थमिदं वचनम् । तसमास इति किम् ? । शलभानां परमच्छाया । सभाशब्दः सड्ढे वाच्ये येषां च सहस्तैः सह समासेन नपुंसकलिङ्गो भवति । स्त्रीणां सभा स्त्रीसमं, ब्राह्मणानां सभा ब्राह्मणसभं सङ्घ इत्यर्थः । सभा राजार्थराक्षसादीनां भवने च । राजाभिधेयो येषांशब्दानां तेषां सन्बन्धिनी सभा भवने वाच्ये तैश्च सह समासे नपुंसकलिङ्गं भवति । इनस्य सभा इनसमम, ईश्वरसमें नृपतिसभं भवनं सङ्खो वा। राजार्थानामिति किम्?। राजशब्देन सह समासेऽपि न भवति । राजसभा, जगतुङ्गसभा। राक्षसादीनां राक्षसप्रकाराणां समा सङ्घ भवने च वाच्ये तत्समासे नपुंसकलिङ्गा भवति । राक्षसानां समा राक्षससभं, पिशाचसमं सड इत्यर्थः। राक्षससभं भवनम् । बन्दैकत्वाव्ययीभावौ । बन्दस्य यदेकत्वमेकवद्भावः स नपुंसकलिङ्गो भवति । पाणिपादं, मार्दङ्गिकपाणविक, हस्त्यश्वं, धवखदिरपलासं, शशहरिणम् , अहोरात्रौ । अव्ययीभावसमासश्च नपुंसकलिङ्गो भवति।अधिस्त्रि, उपबन्धु । पञ्चनदं,सप्तगोदावरं, शनैर्गङ्गम्, उन्मत्तगङ्ग, लोहितगङ्गम्, इत्यत्र यद्यप्यन्यपदार्थेऽव्ययीभावस्तथापि वाच्यवलिन भवति, अव्ययीभावसामर्थ्यात् ।
कृतषष्ठ्यन्तसमासे तदादिकथने झुपक्रमोपज्ञे । कन्योशीनरदेशे नाम्न्यव्ययपूर्वकश्च पथः॥७॥
उपक्रम्यत इत्युपक्रमः । “ अकर्तरि च कारके सज्ञायाम् (३-३-१९) ” इति कर्मणि धब् । उपज्ञायत इत्युपज्ञा । “आतबोपसर्गे (-३-१०६) इति कर्मण्येव लियाम । उपक्रमचोपज्ञा च षष्ठयन्तेन सह समासे कृते नपुंसके भवतः। तदादिकथने । तस्य उपक्रमस्य उपक्रम्यस्य च प्राथम्यकथने, तस्यायोपशाया उपज्ञेयस्य च प्राथ