________________
श्रीशान्तिनाथचरित्र
विधाय स सुधीरेवं तामात्मवशवर्तिनीम् । पुना रात्री सचन्द्रायां प्रोवाच जनकं प्रति ॥ ६॥ उत्तिष्ठोत्तिष्ठ हे तात ! यात्यद्याप्यसको नरः । अथास्य पृच्छतोऽदर्शि तेन च्छाया शरीरजा ॥ ८७॥ त्वच्छायेयमिति प्रोक्त पित्रा प्रोवाच रोहकः । अग्रेऽप्येवंविधी दृष्टस्तहि तात ! मया नरः ॥ ८ ॥ रङ्गशूरः ततो दध्यौ हा ! मया वचनात् शिशोः । अपमानपदं चक्र पत्नी दोषाऽभिशङ्कया ॥ ८ ॥ ततः सा रुक्मिणी भर्तः पूर्ववद वल्लभाऽभवत् । रोहकस्य सदा भक्तिं कुरुते स्म च सादरम् ॥ ७०० ॥ स पित्रा सह भुङ्क्ते स्म तथाऽपि कुशलाऽऽशयः । स्वजनन्या अपि प्रायो बुद्धिमान् न हि विश्वसेत् ॥ १॥ अन्यदा सह तातेन स गत्वोज्जयिनी पुरीम् । सर्वमालोकयामास पुरे देवकुलाऽऽदिकम् ॥ २ ॥ गते ताते पुरीमध्ये स सिप्रासैकतेऽन्यदा । पुरी रेणुमयौं कृत्वा तस्थौ तद्रक्षण स्वयम् ॥ ३ ॥ अथाल्पभृत्योऽश्वाऽऽरू ढस्ते नागच्छन् पथा नृपः। सहसा रोहकेणोचे सावष्टम्भमिदं वचः ॥ ४ ॥ पुरः प्रासादचैत्याढ्यां राजपुत्र ! पुरोमिमाम् । किं त्वं भतासि येनावं निवर्तयसि नान्यतः ? ॥ ५ ॥ तस्य बुद्धया गिरा चैव प्रसृष्टः पृथिवीपतिः । कस्यायं सूनुरित्येवं पप्रच्छानुचरान् निजान् ? ॥ ६ ॥