________________
(१)
चतुर्थः प्रस्तावः ।
साऽब्रवीद रे शिशो ! यत् त्वं निग्रहानुग्रहात्तमः । स त्वं रुष्टोऽथवा तुष्टः करिष्यसि ममात्र किम् ? ॥ ८६ ॥ रोहकः चिन्तयामासोत्पाद्य मन्तुं कमप्यहम् । तथा करिष्ये तातस्यानिष्टयं जायते यथा ॥ ८७ ॥ विचिन्त्येवं स यामिन्यामुत्थाय सहसाऽब्रवीत् । यात्येष पुरुषः कोऽपि निःसृत्य गृहमध्यतः ॥ ८८ ॥ तद निशम्य पिता तस्य शयानोऽथ गृहाजिरे । उत्थायोवाच रे ! दुष्टं तं दर्शय नरं मम ॥ ८८ ॥ रोहकोऽप्यवदत् तात ! स उत्प्नुत्य गतः क्षणात् । रङ्गोऽपि हि विरागार्हस्ततोऽभूद् गेहिनीं प्रति ॥ ८० ॥ श्रः ! किमन्यनराऽऽसक्ता जातेयमथवा भवेत् ? । किमिदं दुर्घटं येन भवन्त्येवंविधाः स्त्रियः ? ॥ ८१ ॥ पृथक शय्याविधानेन ततोऽसौ तेन धीमता । अशस्त्रवधवद् दुःखभागिनी विदधे स्फुटम् ॥ ८२ ॥ साऽपि दध्यौ मया नापराधं किमपि भर्तरि ? | नूनमेतेन बालेन कोपितोऽयं पतिर्मम ॥ ८३ ॥ करोम्यस्यैव तद्भक्तिं भर्तृतोषविधित्सया ।
२३५
येनैवाऽऽरोपितं दुःखं स एवा 'पनयत्वरम् ॥ ८४ ॥ ततः सा प्रार्थयामास रोहकं भक्तिपूर्वकम् ।
वत्स ! मेऽभिमुखं कान्तं कुरु दास्यस्मि ते स्फुटम् ॥ ६५ ॥
ख घ ङ -पनयेत्तराम् ।