________________
चतुर्थः प्रस्तावः ।
२३७
तेऽवोचन् रङ्गशूरस्य सुतोऽयं देव ! रोहकः । विज्ञानवचनाभ्यां यो जातस्त्वच्चित्तमोहकः ॥ ७ ॥ मन्त्रिपञ्चशतान्यासन् तस्य राज्ञः परं नरम् । प्रकष्टं मार्गयामास स विधातुं महत्तमम् ॥ ८ ॥ ततोऽसौ रोहकप्रज्ञापरीक्षण कृतेऽन्यदा । पुरुषं प्रेषयित्वा स्वं ग्रामीणानिदमादिशत् ॥ ८ ॥ अस्म द्योग्य इह ग्रामे प्रासादः कार्यतां परम् । द्रव्यव्ययेन बहुनाऽप्येक द्रव्यविनिर्मितः ॥ १० ॥ संभूय ग्रामवृद्धास्ते रङ्गशूरनटश्च सः । चिरमालोचयामासुस्तद् विधातुमनौश्वराः ॥ ११ ॥ विना तातमभुञ्जानो रोहकोऽथ रुदन् ग्रहात्।
आगत्याकारयामास भोजनायै नमादरात् ॥ १२ ॥ सोऽवदद् वत्स ! दत्तोऽद्य क्षुद्राऽऽदेशो महीभुजा । एकद्रव्येण केनापि प्रासादः कार्यतामिति ॥ १३ ॥ सन्निर्णयमकत्वैव भोजनं क्रियते कथम् ? । अाजा बलवतां यस्माद् लडिता न शुभावहा ॥ १४ ॥ रोहकोऽप्यवदत् तावद् भोजनं क्रियतां ननु । पश्चात् सर्व भणिष्यामि चिन्तनीयं किमत्र भोः ? ॥ १५ ॥ भोजनोईमभाषिष्ट स सुधी राजपूरुषम् । इयमुच्चतरा दीर्वाऽऽयामयुक्ताऽस्ति या शिला ॥ १६ ॥ तयैव कारयिष्याम: प्रासादं नृपचिन्तितम् । पूरणीयं नृपणेव पुन: शिल्पिधनाऽऽदिकम् ॥ १७ ॥