________________
-
चतुर्थः प्रस्तावः ।
पुण्यसारोऽवदत् तात ! युष्मशिक्षापनैव हि । संजाता हेतुरीदृश्या: सम्पदो नियतं मम ॥ ८८ ॥ दत्त्वाऽय द्यूतकारस्य तदानीतं विभूषणम् । नृपसत्कं नृपस्यैवार्पयामास पुरन्दरः ॥ ८८ ॥ विदधे पुण्यसारोऽथ हट्टव्यापारमुत्तमम् । दूरं विहाय तद् द्यूतव्यसनं गुणनाशनम् ॥ ८ ॥ इतस्तस्मिन्ननायात वलित्वा गुणसुन्दरी। सोदरीणां समाचख्यौ सर्वासामपि तहतिम् ॥ ८१ ॥ ततस्ता नवगेहान्त मांसक इवोत्कटे । आकस्मिकेऽसुखे तस्मिन् पतिते रुरुदुर्भृशम् ॥ ८२ ॥ आकण्यं रुदितं पित्रा पृष्टास्तस्य च कारणम् । कथयन्ति स्म तास्तस्य तत्पत्युरपवारणम् ॥ ८३ ॥ सोऽब्रवीदपरिज्ञातपारम्पर्यो निजः पतिः । किं न सम्भूय युमाभिधृतो ज्ञात्वा तदाशयम् ? || ८४ ॥ रूपलावण्ययुक्ताभिः स्त्रीभि: सर्वोऽपि लुभ्यते । तद् भवत्यः प्रियास्तेन प्राप्ताः परिहृताः कथम् ? ॥ ८५ ॥ यदङ्गलग्नमादाय भूषणं गतवानसौ । तद् मन्ये व्यसनी कोऽपि व्यंसको वा भविष्यति ? ॥ ८६ ॥ दत्तो लम्बोदरेणाऽपि यदेवमकरोदसौ। तद् नूनं दुष्कृतं किञ्चित् पुरा चौर्णमिदं हि वः ॥ ८७ ॥
(१) थ -रीक्ष-। (२) ख ङ दत्त्वाऽर्थ ।
२८
(३) द तदानीं तहिभूषणम् । (४) घ च ट द -नायाति ।