________________
२२४
श्रीशान्तिनाथचरित्रे
तत्कोटरप्रविष्टेऽस्मिन् निन्यतुर्दैवते अपि । तच्छ त्योत्याटित: मोऽथ वटः स्वस्थानमागमत् ॥ ७८ ॥ इत: पुरन्दरः श्रेष्ठो भ्रामं भ्रामं पुरेऽखिले । निशान्तेऽतीवनिर्विलो यावत् तत्र समाययौ ॥ ७८ ॥ तावत् सा विगता रात्रिः प्रगाष्टं क्वापि तत् तमः । ततो विभातं न्यग्रोध गतस्येत्युच्यते जनैः ॥ ८० ॥ निर्ययो पुण्यसारोऽथ तदानों वटकोटरात् । वस्त्रालङ्कारसाराङ्गः पिटवक्ताम्बुजार्यमा ॥ ८१ ॥ पुत्रमत्यद्भुतश्रीकं दृष्ट्वा श्रेष्ठी सविस्मयः । वत्स ! वत्सेति जल्पन्तमालिलिङ्ग ससंभ्रमम् ॥ ८२ ॥ ततः स्वर्गहमायात: सह तेन विलोक्य तौ। बभूव श्रेष्ठिनो दृष्टा स्मृष्टा रुच्येव शीतगीः ॥ ८३ ॥ गाढमालिङ्ग्य सस्नेहं तमुत्सङ्गे निवेश्य च । पप्रच्छ वत्स ! शोभयं संजाता क्क तवेदृशौ ? ॥ ८४ ॥ जचे च जनकोऽप्येवं ततोऽसौ सकलां कथाम् । तदने कथयामास महहिस्मयकारिणीम् ॥ ८५ ॥ . तावेवमूचतुर्भाग्यमहो ! वत्सस्य कीदृशम् ? । ऋद्धिर्ये नेटशी लब्धा रात्रिमध्येऽप्यचिन्तिता ॥ ८६ ॥ बभाण जनको भूयः क्षन्तव्यं वत्स ! तत् त्वया। मया विरूपं यत् किञ्चिदुक्तं शिक्षापनाकृते ॥ ८७ ॥
(१) ङ -ऽसिनीयतः।
(२) ङ सहसैव।