________________
थौशान्तिनाथचरित्रे
विज्ञातं किं न युभाभि: कुर्वतीभिः कथामिमाम् । तस्याभिधानं स्थानं वा स्वरूपमपरं तथा ? ॥ १८ ॥ गुणसुन्दर्य थोवाच दीपोद्योते तदाऽमुना। अस्त्यत्र लिखितं किञ्चिद् वाचितं तद् मया न तु ॥ ६८ अथ प्रभाते संजाते श्लोके तस्मिंश्च वाचिते । सोचे गोपालयपुरे गतस्तात ! पति: स नः ॥ ६०० ॥ केनचिद् दैवयोगेन रात्रान्ते स इहाऽऽगतः । त्वद्दत्ताः परिणीयास्मान् तत्रैव हि पुनर्गत: ॥ १॥ ततस्त्वं निजहस्तेन नरवेषं ममापय । मेलयित्वा महासाथं यतस्तत्र व्रजाम्यहम् ॥ २॥ जास्यामि तं निजं कान्तं तत्राऽ'विष्य कथञ्चन । षण्मासाभ्यन्तरे वह्निरन्यया शरणं मम ॥ ३॥ पित्राऽर्पितवेषा सा महासार्थसमन्विता। ययौ गोपालयपुरे कियद्भिर्दिवसैस्ततः ॥ ४ ॥ गुणसुन्दराभिधानः कश्चित् सार्थपतेः सुतः । इत्यसो नगरे तस्मिन् मानितः पृथिवीभुजा ॥ ५ ॥ क्रयविक्रयादि चक्रे व्यवहारं वणि ग्घितम् । समं च पुण्यसारण मैत्रीत्वं वचनाऽऽदिभिः ॥ ६ ॥ (युग्मम्) अथोचे रत्नसारं स्ववप्तारं रत्नसुन्दरी। यद् मया परिणेतव्यस्ताताऽयं गुणसुन्दरः ॥ ७ ॥
(१) ख घ ङ उन्लेष्य ।
१२) घ ङ -विक्रयादि।