________________
चतुर्थः प्रस्तावः ।
याचमाने नृपे श्रेष्ठी स्थानं यावद् व्यलोकयत् । तत्र तावददृष्ट्वा तद् मनस्येवमचिन्तयत् ॥ २७ ॥ गृहीतं पुण्यसारेण नूनमेतद् भविष्यति । अन्यस्य गूढमद्दस्तूपादाने योग्यता न हि ॥ २८ ॥ यदर्थं खिद्यते लोकैः यत्नश्च क्रियते महान् । तेऽपि सन्तापदा एवं दुष्पुत्रा हा ! भवन्त्यहो ! ॥ २८ ॥ हारितं क्वापि तेनेदं चेद् भविष्यति तद् मया । गृहाद् निर्वासनीयोऽयं पुत्ररूपेण वैरिकः ॥ ३० ॥ एवं विचिन्त्य हृट्टेऽगात् श्रेष्ठो तत्रागतं सुतम् । पप्रच्छालङ्गतेः शुद्धिं सोऽप्याचख्यौ यथातथम् ॥ ३९ ॥ ततः प्रकुपितः श्रेष्ठी तमूचे दुष्ट ! रे ! त्वया । तद्भूषणमुपादाय समागम्यं गृहे मम ॥ ३२ ॥ वचसा तर्जयित्वैवं धृत्वा च गलकन्दले । निरस्तस्तनयस्तेन गाढरोषवशेन सः ॥ ३३ ॥ तदा दिनावसानत्वात् अन्यतो गन्तुमत्तमः । पुरान्निस्सृत्य न्यग्रोधकोटरं प्रविवेश सः ॥ ३४ ॥ श्रेष्ठिन्या भणितः सोऽथ गृहं प्राप्तः पुरन्दरः । कथमद्य पुण्यसारो नायात्यद्यापि मन्दिर ? ॥ ३५ ॥
राजभूषणवृत्तान्तमाख्यायैवमुवाच सः ।
२१८
मया निर्वासितः सोऽद्य प्रिये ! शिक्षापनाकृते ॥ ३६ ॥ सोचे निस्मारितो येन तनयो रजनीमुखे । स त्वं मे मुखमात्मोयं कथं दर्शयसि स्फुटम् १ ॥ ३७ ॥