________________
२१८
श्रीशान्तिनाथचरित्र
अपश्यन्नपरोपायं तल्लाभे सोऽथ बुद्धिमान् । 'पृष्ट्वा तातं स्वदात्रीं तां विवेद कुलदेवताम् ॥ १७ ॥ तत: कुसुमनैवेद्यगन्धधपविलेपनैः । अभ्यर्य सुविनौतात्मा प्रार्थयामास तामिति ॥ १८ ॥ दत्तोऽहं तुष्टया देवि ! श्रेष्ठिनस्तनयो यथा । सा त्वं वाञ्छां कलत्रस्य सकले ! पूरयाद्य मे ॥ १८ ॥ न चेत् पूरयसि खेच्छां मम त्वं कुलदेवते ! । अमत्रमपमानस्य ततोऽहं निर्मित: कथम् ? ॥ २० ॥ उत्थास्यामि तदेवाहमित: स्थानाट् यदीप्सितम् । पूरयिष्यसि देवि ! त्वं भोक्ष्ये चाहं तदैव हि ॥ २१ ॥ इत्थं कृतप्रतिन्जेऽस्मिन् दिनमेकमुपोषिते । तुष्टा सोचे शनैर्वत्स ! सर्व भव्यं भविष्यति ॥ २२ ॥ हृष्टचित्तस्ततः पुण्यसारो विहितभोजनः । अवशिष्ट कलाऽभ्यासं विदधे जनकाऽऽजया ॥ २३ ॥ समधीतकलः सोऽथोद्यौवनः श्रेष्ठिनन्दनः । केनचित् कर्मदोषण दुरोदररतोऽभवत् ॥ २४ ॥ अतीववल्लभत्वेन पिल्टभ्यामनिवारितः । म द्यूतव्यसनी जज्ञे निषिद्धो न न्यवर्तत ॥ २५ ॥ लक्षमूल्यमथान्येद्युः राज्ञोऽलङ्करणं गृहात् । हृत्वा दत्तं सभिकस्य स्खलक्षे हारितेऽमुना ॥ २६ ॥
(१) ड दृष्ट्वा तां तत्माप्तिहेतोर्विवेद कुल देवताम्।...