________________
२२०
श्रीशान्तिनाथचरित्रे
बालं नेत्रविशालं तमेकतोकं त्वमात्मनः । अस्यां विकालवेलायां निरस्यन् लज्जसे न किम् ? ॥ ३८॥ तहच्छ वत्सके तस्मिन् समानीते गृहे मम ।
आगन्तव्यं त्वयाऽपीति स तया निरवास्यत ॥ ३८ ॥ 'गहिनीभर्मित: पुत्रं स्मृत्वा सोऽपि सुदुःखितः । सर्वत्राऽन्वेषयामास नगरे निजनन्दनम् ॥ ४० ॥ ग्रहं निर्मानुषं वीक्ष्य श्रेष्ठिनी सा व्यचिन्तयत् । निरासे हा ! मया गेहाद पतिः कोपपरीतया ॥ ४१ ॥ पुत्रापायकता पूर्व मूर्खता थेष्ठिना हाता । निरस्यन्त्या स्वभर्तारं पश्चात् चक्रे मयाऽपि सा ॥ ४२ ॥ एवं चिन्ताऽऽतुरा साना तयोर्मार्गावलोकनम् । कुर्वाणो तनुः साऽस्था द्वारदेशे स्व वेश्मनः ॥ ४३ ॥ ददर्श पुण्यसारोऽथ तत्रोभे देवते निशि । खरोचिषा तमोहन्त्री शुश्रावेति च तहिरम् ॥ ४४ ॥ एका स्माह स्वसः ! किं न स्वेच्छया भ्राम्यते भुवि ? । वर्तते यदियं रात्रिरस्मत्पक्षकतोदया ॥ ४५ ॥ द्वितीयोवाच किं व्यर्थं भ्रान्त्याऽऽत्मा खेद्यते हले ।। दृश्यते कौतुकं क्वाऽपि यदि तत्रैव गम्यते ॥ ४६ ॥ साऽवदत् कौतुकं तर्हि गच्छामो वलभीपुरे ।
1) ज द गेहिन्या भर्मितः ।
(२) बलभीपुरस्य यत्र यत्र प्रसङ्ग स्तव तव वल्लभीतिल कारवयाशियोपि पाठो दृश्यते कचित् ।