________________
चतुर्थः प्रस्तावः ।
२१५
जनेऽथ समये तस्यास्तनयः शुभलक्षणः । तस्य जन्मनि तत्यित्रा विदधे च महाक्षणः ॥ ८६ ॥ पुण्यं कृत्वाऽयमायात: प्राप्तः पुण्येन वा मया । पुण्यसार इति नाम चक्रे तस्येति तत्पिता ॥ ८७ ॥ बालरक्षाविधात्रीभिर्धात्रीभिः परिपालितः । स पित्रोवल्लभतमो बभूवाऽध्ययनक्षमः ॥ ८८ ॥ उपाध्यायस्य वर्यस्य कलाग्रहणहेतवे । जनकेनार्पितो लेखशालाकत्युत्सवेन सः ॥ ८८ ॥ तत्रैव नगरे रत्नसारस्य वणिजः सुता। बभूव बालिका रत्नसुन्दरी सुन्दराङ्गका ॥ ८० ॥ अधीयानाऽथ तस्यैव कलाचार्यस्य सन्निधौ । जन्जे सहाध्यायिनी सा पुण्यसारस्य धीमतौ ॥ १ ॥ सा चापलेन महिला सुलभेन कलाविधौ। विवादं पुण्यसारण सह चक्रे मनीषिणी ॥ २ ॥ अन्यस्मिन् दिवसे तेन रुष्टेनैवमभाणि सा। बालिके ! पण्डितंमन्या यद्यप्यसि कलावती ॥ ८३ ॥ तथापि हि मया साई विवादस्तव नोचितः । भविष्यसि यतो दासी पुरुषस्य रहे खलु ॥ ८४ ॥ (युग्मम्) साऽवदद् यदि रे ! दासी महाभाग्यस्य कस्यचित् ।। भविष्यामि नरस्याहं तद् मूढ ! भवतोऽत्र किम् ? ॥२५॥ शशंस पुण्यसारोऽपि परिणीय बलादपि। करोमि कि करीं चेत् त्वां तदाऽहं नियतं नरः ॥ ६ ॥