________________
२१६
श्रीशान्तिनाथचरित्रे
भूयोऽपि साऽब्रवोट सूर्ख ! बलात्कारेण जायते । स्नेहो नाऽन्यस्य कस्यापि दम्पत्योस्तु विशेषतः ॥ ८७ ॥ ततोऽसौ लेखशालायाः पुण्यसारो गतो गृहम् । सुष्वाप मन्युशय्यायां भूत्वा म्लानमुखोऽसुखो ॥ ८८ ॥ श्रेष्ठो पुरन्दरो वेश्म भोजनार्थमुपागतः । ज्ञात्वा तचेष्टितं तस्यान्तिकमेत्येवमूचिवान् ॥ ८८ ॥ अयि वत्स ! कुतो हेतोरद्य श्याममुखो भवान् ? । अकाले शयनं किं ते कारणं से निवेदय ? ॥ ५०० ॥ निर्बन्धपृष्टः सोऽवोचत् तात ! मां रत्नसुन्दरोम् । परिणाययसि त्वं चेत् तदा स्वस्थो भवाम्यहम् ॥ १ ॥ भूयोऽभाषिष्ट तं श्रेष्ठी बालोऽस्यद्यापि वत्सक ! । कुरु तावत् कलाऽभ्यासं काले परिणयेः स्नुषाम् || २ || पुत्रेण भणितं तात ! यदि तां याचसेऽधुना । मदर्थं तत्पितुः पार्श्वत् तदा भोक्ष्ये न चान्यथा ॥ ३ ॥ संबोध्य भोजयित्वा तं स्वयं भुक्त्वा च श्रेष्ठासो । बन्धुभिः सहितो रत्नसारश्रेष्ठिग्टहं ययौ ॥ ४ ॥
अभ्युत्थानासनदानखागतप्रश्नपूर्वकम् । सोऽवदत् कारणं ब्रूत येन यूयमिहागताः ॥ ५ ॥ ऊचे पुरन्दरस्त्वत्तः कन्यकां रत्नसुन्दरीम् | याचितुं स्वसुतस्यार्थे श्रेष्ठिन् ! वयमुपागताः ॥ ६ ॥ अभ्यधाद् रत्नसारोऽपि कृत्यं यद् मम सर्वा 1 युष्माभिर्विहितं तत् तद् देयाऽवश्यं सुता मया ॥ ७ ॥