________________
श्रीशान्तिनाथचरित्रे
वाञ्छन्नपि सुतं श्रेष्ठी भणित: स्वजनैरपि । तस्याः स्नेहपरो नारी नान्यां परिणिनाय सः ॥ ७६ ॥ यक्ष भट्टारिकां वा नो काञ्चिदर्थयति स्म सः । नैवोपयाचितं चक्रे तयोः स्थिरसुदर्शनः ॥ ७७ ॥ सन्तानार्थी स चाऽन्येारभ्यर्च कुलदेवताम् । उवाच सप्रियोऽप्येवं प्रणिपातमसंस्पृशन् ॥ ७८ ॥ अस्माकं पूर्वजैः सर्वैः पूजिता त्वं मयाऽपि च । इहलोकसुख स्याऽर्थे सर्वदा कुलदेवते ! ॥ ७८ ॥ अविद्यमानसन्ताने परलोकं गते मयि । पूजां बन्धुजनस्येव करिष्यति तवापि कः ? ॥ ८ ॥ तत्त्वं ज्ञात्वाऽवधिज्ञानेनाऽऽख्याहि मम सन्ततिम् । भविष्यत्ययवा नेति नान्यत्त्वामर्थयाम्यहम् ॥ ८१ ॥ देवतोवाच श्रेष्ठिन् ! ते भविष्यति सुतः खलु । धर्मे प्रवर्तमानस्य गते काले कियत्यपि ॥ ८२ ॥ ततः प्रहृष्टचित्तोऽसौ ग्रहवासमपालयत् । कुलक्रमाऽऽगतं धर्म विशेषण चकार 'च ॥ ८३ ॥ कश्चित् पुण्याधिको जीवः सुतत्वेन समागमत् । कुक्षी पुण्यथियोऽन्येाश्चन्द्रस्वप्नोपचूचितः ॥ ८४ ॥ तत्स्वप्नदर्शनं प्रात: स्वभर्ता ज्ञापितस्तया । तेनाऽप्याह्लादिता पुत्र जन्मना सा सुचेतसा ॥ ८५ ॥