________________
योगशास्त्रम्
योगमाहात्म्यम्
॥४७॥
क्षुद्रहिमवत्कुमारं तत्र चार्षभिः । चक्रेऽष्टम कार्यसिद्धेस्तपो मङ्गलमादिमम् ॥२७॥ गत्वाष्टामान्ते हिमवत्पर्वत त्रिरताडयत् । साटोपो रथशीर्षेण शीर्षण्यः पृथिवीभुजाम् ।।२८|| भरतेशस्ततः क्षुद्रहिमवगिरिमूर्द्धनि । द्वासप्तति योजनानि नामाङ्क वाणमक्षिपत ॥२९॥ बाणमालोक्य हिमवत्कुमारो ऽप्येत्य सत्वरम् । भरताज्ञां स्वशिरसा शिरस्त्राणमिवाग्रहीत् ॥३०॥ गत्वा ऋषभकूटाद्रिमृषभस्वामिभूस्ततः । जघान रथशी पेण त्रिदन्तेनेव दन्तिराट् ॥३१॥ अवसर्पिण्यां तृतीयारप्रान्ते भरतेऽस्म्यहम् । चक्रीति वर्णान् काकिण्या तत्पूर्वकटकेऽलिखत् ॥३२॥ ततो व्यावृत्त्य सद्वृत्तः स्कन्धावारं निजं ययौ । चकाराष्ट्रमभक्तान्तपारणं च महीपतिः ॥३३॥ ततश्च क्षुद्रहिमवत्कुमारस्य नरेश्वरः । अष्टाहिकोत्सवं चक्रेऽनुरूपं चक्रिसम्पदः॥३४॥ ततो निववृते चक्रवर्ती चक्रपथानुगः । सिन्धुगङ्गान्तरं कुर्वन् सङ्कटं विपुलैर्बलैः ॥३५॥ नितम्बमुत्तरमथ वैताढयाद्रेरवाप सः । तत्र स्वस्थपरीवारं स्कन्धावारं न्यधत्त च ॥३६॥ ततो नमिविनम्याख्यौ विद्याधरपती प्रति । आदिदेश विशामीशो मार्गणं दण्डमार्गणम् ॥३७॥ वैताढयश्रृङ्गादुत्तीर्य कुपितौ दण्डयाचनात् । आजन्मतुयुयुत्सू तौ विद्याधरवलावृतौ ॥३८॥ कुर्वन्मणिविमानैर्या बहुसूर्यमयीमिव । प्रज्वलद्भिः प्रहरणैस्तडिन्मालामयीमिव ॥३९॥ उद्दामदुन्दभिध्वानघघोषमयी मिव । विद्याधरवलं व्योमन्यपश्यद्भरतस्ततः ॥४०॥ दण्डार्थिन् दण्डमस्मत्तस्त्वं गृह्णासीति भाषिणी । आहवायाहयेतां तौ विद्यादृप्तौ महीपतिम् ॥४१॥ अथ ताभ्यां ससैन्याभ्यां प्रत्येकं युगपच्च सः । युयुधे विविधेयुद्धयुद्धाा यजयश्रियः ॥४२॥ युधा द्वादशवार्षिक्या विद्याधरपती जितौ । प्राञ्जली प्रणिपत्यैवं भरताधीशमूचतुः ॥४३॥ रवेरुपरि किं तेजो वायोरुपरि को जवी । मोक्षस्योपरि किं सौख्यं कश्च शूरस्तवोपरि ॥४४॥
॥४७॥