________________
योगशास्त्रम्
योगमाहात्म्यम्
॥४६॥
ततोऽनुगचमूचक्रश्चक्रमार्गानुगो गुहाम । प्रविवेश विशामीशो मेघमध्यमिवार्यमा ॥१०॥ गोमूत्रिकाक्रमेणानुयोजनान्तं तमश्छिदे । पार्श्वयोः काकिणीरत्नेनालिखन्मण्डलानि सः ॥११॥ दीप्रैरेकोनपश्चाशन्मण्डलैः काकिणीकृतैः । मार्तण्डमण्डलोद्योतैस्तद्वाहिन्योऽवहन्मुखम् ॥१२॥ भूपेऽथापश्यदुन्मग्ननिमग्ने निम्नगे ययोः । एकत्रोन्मज्जति ग्रावान्यस्यां मज्जत्यलाववपि ॥१३॥ अतिदुस्तरतामाजोरपि सारणिलीलया । तयोनधोरनवद्यां पद्यां व्यधित बद्धकिः ॥१४॥ पद्यया ते समुत्तीय तद्गुहाकुहरान्नृपः । निरगच्छन्महामेघमण्डलादिव भास्करः ॥१५॥ भरतो भरतक्षेत्रोत्तरखण्डं प्रविष्टवान् । अयुध्यत ततो म्लेच्छै नवैवि वासवः ॥१६॥ जिता राज्ञा महेशेन म्लेच्छाः प्रतिजयेच्छवः। उपासाश्चक्रीरे मेघमुखान् स्वकुलदेवताः ।।१७।। मुसलाकारधाराभिरारादासारदारुणम् । ते प्रावर्तन्त संवत इव विष्वक् प्रवर्षितुम् ॥१८॥ चर्मरत्नमधस्तेने राज्ञा द्वादशयोज नीम् । तद्वदृवं छत्ररत्नं मध्ये च निदधे चमः ॥१९॥ मणिरत्नमुरुध्वान्तध्वंसाय वसुधाधिपः । पूर्वाचल इवादित्यं छत्रदण्डे न्ययोजयत् ॥२०॥ तरदण्ड इवाराजत्तद्रत्नद्वयसम्पुटम् । ततस्तदादिलोकेऽभूब्रह्माण्डमिति कल्पना ॥२१॥ पूर्वाहणे वापितान शालीनपराहणे च पवित्रामान् । प्रत्यावासं गृहपतिर्भोजनार्थमपूरयत् ॥२२॥ वर्ष वर्ष च निविण्णरूचे मेघकुमारकैः । किराताश्चक्रव]ष न साध्योऽस्मादृशामपि ॥२३॥ भग्नेच्छास्तगिरा म्लेच्छाः शरणं भरतं ययुः । अग्निना किल दग्धानामग्निरेव महौषधम् ॥२४॥ ततश्चाजय्यमजयसिन्धोरुत्तरनिष्कुटम् । स्वाम्यादेशेन सेनानीः संसारमिव योगवित् ॥२५॥ कैश्चित्प्रयाणकैर्गच्छन् गजेन्द्र इव लीलया । नितम्ब दक्षिणं क्षुद्रहिमाद्रः प्राप भूपतिः ॥२६॥ उद्दिश्य
(१) महेच्छेन ।
शालीनपराईका । किराताश्कल दग्धानामवि योगवित
॥४६॥