________________
योगशास्त्रम्
योगमाहात्म्यम्
॥४५॥
विसृज्य तमपि मापः कृत्वा चाष्टमपारणम् । विदधेऽष्टाह्निकां तस्य महोत्सव पुरःसरम् ॥९२॥ सुषेगो भरतादेशात्सिन्धुमुत्तीय चर्मणा । तरसा साधयामास दक्षिणं सिन्धुनिष्कुटम् ॥९३॥ करं ततस्त्यम्लेच्छानामादाय स्वेच्छयाथ सः । उत्तीर्य चर्मणा सिन्धुमाययौ भरतेश्वरम् ॥९४॥ वैताढये तमिस्रां वत्रकपाटपिहितां गुहाम् । उद्घाटयितुमादिक्षत् सुषेणमृपमात्मजः ॥९५।। सुषेणोऽपि प्रभोराज्ञां शेषावन्मूनि धारयन् । प्रदेशेऽगात्तमिसाया गुहाया अदवीयसि ॥९६॥ तदधिष्ठातृदेवं च कृतमालमनुस्मरन् । तस्थौ पौषधशालायामष्टमेन विशु
धीः ॥९७॥ स्नात्वा चाष्टमभक्तान्ते बाह्याभ्यन्तरशौचभृत् पर्यधाच्छुचिवस्त्राणि विविधाभरणानि च ॥९८॥ होमकुण्डोपमे धूपदहने ज्वलदग्निके । धृपमुष्टीः क्षिपन् स्वार्थसाधनीराहुतीरिव ॥९९॥ ततः स्थानादसौ तस्या गुहाया द्वारमभ्यगात । कोशद्वारं तदायुक्त इवोद्घाटयितुं त्वरी॥३००|| दृष्टमात्र तत्कपाट युगलं प्रणनाम च । नेतारमिव तदन्तःप्रवेशः स्यात्कुतोऽन्यथा ॥१॥ गुहाद्वारे ततोऽष्टाष्टमङ्गलालेखपूर्वकम सोऽष्टाहिकामहिमानं चक्रे स्वमहिमोचितम् ॥२॥ दण्डरत्न बज्रसारं सर्वशत्रुविनाशनम् । अथ सेनापतिवन बज्रपाणिरिवाददे ॥३॥ पदानि कतिचित्सोऽपमृत्य वक्र इव ग्रहः । दण्डरत्नेन झटिति कपाटी त्रिरताडयत ॥४॥ पक्षाविवादेववेक दण्डरत्नेन ताडितो तडत्तडिति कुर्वाणो विश्लिष्टौ तो बभूवतुः ॥५।। तद्गुहाद्वारवत्सद्यः सविकाशमुखो भृशम् । मुषेणो भरतायेदं गत्वा नत्वा व्यजिज्ञपत् ।।६।। अद्याभूत्त्वत्प्रभावेण गुहाद्वारमपार्गलम । यतेनिःश्रेयसद्वारं तपसेवातिभूयसा ।।७|| मघवैरावणमिवाधिरूढो गन्धवारणम् । तत्कालं भरताधीशो गुहाद्वारमुपाययौ ॥८॥ अन्धकारापहाराय मणिरत्नं न्यधान्नृपः । दक्षिणे कुम्भिनः कुम्भे पूर्वाद्राविव भास्करम् ॥९॥
(१) ततस्तम्पभात्मजः
॥४५॥