________________
योग
शास्त्रम्
॥४४॥
भरताधीशं धन्योऽस्मि यदिहागमः । नाथेन भवता नाथ सनाथोऽहमतः परम् ॥ ७४ ॥ ततस्तमात्मसात्कृत्वा कृत्यविद्भरतेश्वरः । प्रति प्रतीचीमचलन्चलयन्नचलां बलैः ॥७५॥ अपरार्णवमासाद्य प्रभाभिमुखं शरम् । जाज्वल्पमानं भरतस्तडिद्दण्डमिवाक्षिपत् ॥७६॥ दण्डं प्रयच्छ कुर्वाज्ञां जिजीविषसि चेत्सुखम् । इत्यक्षराणि तद्वाणे प्रभासपतिरैक्षत ॥७७॥ प्राज्यानि प्रगुणीकृत्य प्राभृतान्यद्भूतानि सः । चचाल शरमादाय प्रसाधयि - तुमाभिम् ॥७८॥ हारानीहारहरिणानाजहारातिहारिणः । चिरकालाज्र्जितानात्मयशोराशीनिवाखिलान् ॥ ७९ ॥ येषामग्रे दृषत्कल्पो रमारमणहृन्मणिः । तांस्तान्विश्राणयामास मणीनरशिरोमणेः ||८०|| कटकानि कटीसूत्रं चूडामणिमुरोमणिम् । निष्कादि चार्पयद्राज्ञे मूर्त्त तेज इव स्वकम् ॥८१॥ इति प्रसादितस्तेनाच्छद्मना भक्तिसद्मना । भरतोऽगानदीं सिन्धुमुत्तरद्वारदेहलीम् ||८२|| निकषा सिन्धुभवनं निदधे शिविरं नृपः । सिन्धुदेवीं समुद्दिश्य विदधे चाष्टमं तपः ॥८३॥ सिन्धुश्चासनकम्पेन ज्ञात्वा चक्रिणमागतम् । उपेत्योपायनैदिव्यैरानर्च पृथिवीपतिम् ॥ ८४ ॥ तामुरीकृत सेवां च विसृज्य कृतपारणः । अष्टाहिकोत्सवं तस्य विदधे वसुधाधवः ||८५|| सोऽथ चक्रानुगो गच्छन ककुभोत्तरपूर्वया । भरतार्द्धद्वयाघाटं वैतादद्याद्रिमवाप च ॥ ८६ ॥ नितम्बे दक्षिणे तस्य विन्यस्तशिविरस्ततः । अधिवैताढयकुमारं नृपतिर्विदधेऽष्टमम् ||८७|| विज्ञायावधिना सोऽपि दिव्यैस्तैस्तैरुपायनैः । उपतस्थे महीपालं सेवां च प्रत्यपद्यत ||८८|| तं विसृज्य नृपश्चक्रेऽष्टमभक्तान्तपारणम् । अष्टाट्रिकोत्सवं तस्य विदधे यथाविधि ॥ ८९ ॥ गुहां तमिस्रामभितस्तमिवारिवि त्विषा । जगाम तददुरे च स्कन्धावारं न्यधानृपः ॥९०॥ कृतमालामरं तत्र स उद्दिश्याष्टमं व्यधात्। सोऽपि ज्ञात्वासनकम्पादानचपेत्य भूपतिम् ॥ ९१ ॥
योगमहात्म्यम्
ગા