________________
योगशास्त्रम्
प्रथमः प्रकाशा
॥४३॥
उत्क्षिप्ताधमिवोद्वीचिहस्तविन्यस्तबिटुमैः । गङ्गासम्भेदसुभगं स प्रापत् पूर्वसागरम् ॥५६॥ मागधतीर्थकुमारं देवं मनसिकृत्य च । प्रपेदेऽष्टमभक्तं सोऽर्थसिद्धारमादिमम् ॥५७॥ यादांसि त्रासयन्नाशु रथेनारुह्य रंहसा । जलधि मन्दरेणेव जगाहे स महाभुजः ॥५८॥ रथनाभ्युदये तोये स्थित्वा द्वादशयोजनीम् । बाणं दूतमिव प्रेषीनामाकं मागधाय सः ॥५९॥ अथ मागधतीर्थस्य पतिर्निपतिते शरे । चुकोप विकटाटोपभृकुटीभङ्गभीषणम् ॥६०॥ शरे मन्त्राक्षराणीव तस्य नामाक्षराण्यसौ । दृष्ट्वा नागकुमारोऽभून्नितान्तं शान्तमानसः ॥६॥ प्रथमश्चक्रवत्यैष उत्पन्न इति चिन्तयन् । उपतस्थे स भरतं विजयो मूर्तिमानिव ॥२॥ नरचूडामणेरने निजं चूडामणि फणी । चिराजितं तेज इवोपानयत्तच्छरं च सः ॥६३॥ तवाहं पूर्वदिक्पालः किङ्करः करवाणि किम् । इति विज्ञपयन् राज्ञा सोऽनुजज्ञे महौजसा ॥६४॥ जयस्तम्भमिवारोप्य तत्र त मागधाधिपम् । पूर्वनीरनिधेस्तीरान्नरदेवो न्यवर्तत ॥६५॥ उर्वोमनुीं कुर्वाणश्चलयन्नचलानपि । चतुरङ्गबलेनाथ प्रपेदे दक्षिणोदधिम् ॥६६॥ एलालवङ्गलवलीककोलबहले तटे । सैन्यान्यावासयामास स दोर्वीर्यपुरन्दरः ॥६७॥ तेजसा स दुरालोको द्वितीय इव भास्करः । महावाहं महाबाहुरारुरोह महारथम् ॥६८॥ तरङ्गैरिख रङ्गद्भिस्ततस्तुगैस्तुरङ्गगैः। रथनाभ्युदयं तोयं ललवे स महोदधिम् ।।६९।। वरदामाभिमुखं च सज्जीकृतशरासनः । धनुर्वेदोङ्कारमिव ज्यानि?षं ततान सः ॥७०॥ सौवर्णकर्णताडपद्मनालतुलास्पृशम् । काञ्चनं सन्दधे बाणमाकर्णाकृष्टकामुके ॥७१॥ वरदामाख्यतीर्थेशमभि श्रीभरतस्ततः । मुमोच नमुचिद्वेषिस्थामा नामाङ्कितं शरम् ॥७२॥ वरदामपतिर्वाणं प्रेक्ष्य च प्रतिगृह्य च । भरतं प्रत्युपायज्ञ उपायनमुपानयत् ॥७३॥ ऊचे च
॥४३॥