________________
योग
शास्त्रम्
॥४२॥
|३८|| अद्यावसर्पिणीलोकपद्माकरदिवाकर । त्वयि दृष्टे प्रभातं मे प्रनष्टतमसोऽभवत् ॥ ३९॥भव्यजीवमनोवारिनिर्मलीका रकर्मणि । वाणी जयति ते नाथ कतकक्षोदसोदरा ॥ ४० ॥ तेषां दूरे न लोकाग्रं कारुण्यक्षीरसागर । समारोहन्ति ये नाथ त्वच्छासनमहारथम् ||४१|| लोकग्रतोऽपि संसारमग्रिमं देव मन्महे । निष्कारणजगद्वन्धुर्यत्र साक्षान्चमीक्ष्य से ||४२|| त्वदर्शन महानन्दस्यन्दनिष्यन्दलोचनैः । स्वामिन मोक्षसुखास्वादः संसारेऽप्यनुभूयते ॥४३॥ रागद्वेष पायाद्यैरुद्धं जगदरातिभिः । इदमुद्वेष्टयते नाथ त्वयैवाभयसत्रिणा ||४४ || स्वयं ज्ञापयसे तवं मार्ग दर्शयसि स्वयम् । स्वयं च त्रायसे विश्वं त्वत्तो नाथामि नाथ किम् ||४५ || इति स्तुत्वा जगन्नार्थं महीनाथ शिरोमणिः । देशनावात्रसुधां पूर्ण कर्णाञ्जलिपुटं पपौ || ४६ || तदा ऋषभसेनादीन् भगवान्वृषभध्वजः । दीक्षायामास चतुरशीतिं गणधरान् स्वयम् ||४७|| अदीक्षयत्ततो ब्राह्मीं भरतस्य च नन्दनान् । शतानि पञ्च नप्तृव शतानि सप्त नाभिभूः || ४८ || साधवः पुण्डरीकाद्याः साध्व्यो ब्राहम्यादयोऽभवन् । श्रेयांसाद्याः श्रावकाश्च श्राविकाः सुन्दरीमुखाः ॥ ४९ ॥ एवं चतुर्विधः सङ्घः स्थापितः स्वामिना तदा । ततः प्रभृति सङ्घस्य तथैवेयं व्यवस्थितिः ॥५०॥ स्वाम्यथो भव्यबोधायान्यतोऽगात्सपरिच्छदः । तं नत्वा भारताधीशोऽप्ययोध्यां नगरीं ययौ ॥ ५१ ॥ तत्र नाभ्यङ्गभृवंशरत्नाकर निशाकरः । यथाविधि जुगोपो न्यायो विग्रहवानिव ॥ ५२ ॥ चतुःषष्टिः सहखाणि बभ्रुवुस्तस्य वल्लभाः । अनुचर्यः श्रियो यासां जज्ञिरे रूपसम्पदा || ५३|| तस्मिन्नर्द्धासनासीने वासवस्य दिवौकसः । द्वयोर्भेदमजानन्तः पेतुः प्रणतिसंशये ॥५४|| प्रारब्धदिग्जयः पूर्वं पूर्वस्यां भानुमानिव । सोऽगाज्जितान्यतेजोभिस्तेजोभिद्यतयन् जगत् ॥५६॥
योग
महात्व्यम्
॥४२॥