________________
योगशास्त्रम्
योगमाहात्म्यम्
॥४१॥
॥ २० ॥ सुवर्णवत्रमाणिक्यभूषणैस्तुरगैगजैः । पत्तिभिः स्यान्दनैर्मुर्तश्रीमयैः सोऽचलत्ततः ॥ २१ ॥ सैन्यभूषण भाःपुजकृतजङ्गमतोरणैः। गच्छन् दुरादपि नृपोऽपश्यद्रत्नध्वजं पुरः ॥२२॥ मरुदेवामथावादीद्भरतः पुरतो ह्यदः प्रभोः समवसरणं देवि देवैर्विनिर्मितम् ॥ २३ ॥ अयं जयजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादान्ते सेवोत्सवमुपेयुषाम् ॥ २४ ॥ मालवकैशिकीमुख्यग्रामरागपवित्रिता । कर्णामृतमियं वाणी स्वामिनो देशनाकृतिः ॥ २५ ॥ मयूरसारसक्रौञ्चहंसाद्यैः स्वस्वराधिका । आकर्ण्यते दत्तकर्णैः स्वामिनो गीः सविस्मयम् ॥ २६ ॥ तातस्य तोयदस्येव ध्वनावायोजनादिह । श्रते मनो बलाकेव वलवद्देवि धावति ॥२७॥ त्रैलोक्यमर्तर्गम्भीरां वाणी संसारतारिणीम् । निर्वातदीपनिस्पन्दा मरुदेवा मुदाऽश्रृणोत् ॥२८॥ श्रृण्वन्त्यास्तां गिरं देव्या मरूदेव्या व्यलीयत । आनन्दाश्रृपयःपूरैः पङ्कवत्पटलं दृशोः ॥२९॥ साऽपश्यत्तीर्थकुल्लक्ष्मीं तस्याऽतिशयशालिनीम् । तस्यास्तद्दशनानन्दस्थैर्यात्कर्म व्यशीर्यत ॥ ३० ॥ भगवदर्शनानन्दयोगस्थैर्यमुपेयुषी । केवलज्ञानमम्लानमाससाद तदैव सा ॥ ३१ ॥ करिस्कन्धाधिरूढैव प्राप्तायुःकर्मसङक्षया । अन्तकृत्केवलित्वेन निर्वाणं मरुदेव्यगात ॥ ३२ ॥ एतस्यामवसप्पिण्यां सिद्धोऽसौ प्रथमस्ततः। क्षीराब्धौ तद्वपुः क्षिप्त्वा चक्रे मोक्षोत्सवः सुरैः॥ ३३ ततो विज्ञाततन्मोक्षो हर्षशुग्भ्यां समं नृपः। अभ्रच्छायाकतापाभ्यां शरत्काल इवानशे ॥३४॥ सन्त्यज्य राज्यचिह्नानि पदातिः सपरिच्छदः । ततः समवसरणं प्रविवेश विशाम्पतिः॥३५।। चतुर्भिर्देवनिकायैः स्वामी परि वृतस्तदा । ददृशे भरतेशेन दृकचकोरनिशाकरः॥३६॥ त्रिश्च प्रदक्षिणीकृत्य भगवन्तं प्रणम्य च । मूर्ध्नि बद्धाजलिः स्तोतुमिति चक्री प्रचक्रमे ॥३७॥ जयाखिलजगन्नाथ जय विश्वाभयप्रद । जय प्रथमतीर्थेश जय संसारतारण
॥४१॥