________________
योग
शास्त्रम्
योगमहात्म्यम्
॥४०॥
च्छिदे । स्वामी सिंहासनं भेजे पूर्वाचलमिवार्यमा ॥२॥ रत्नसिंहासनस्थानि दिक्ष्वन्यास्वपि तत्क्षणम् । भगवत्प्रतिबिम्बादि त्रीणि देवा विचक्रिरे॥३॥ वराकीकृतराकेन्दुमण्डलं परमेशितुः। त्रैलोक्यस्वामिताचिह्नमिव च्छत्रत्रयं बभौ ॥४॥ भगवानेक एवायं स्वामीत्यूर्वीकृतो भुजः। इन्द्रेणेव प्रभोरग्रे रेजे रत्नमयो ध्वजः॥५॥ चकाशे केवलज्ञानिचक्रवत्तित्वसूचकम् अत्यद्भुतप्रभाचक्रं धर्मचक्रं प्रभोः पुरः॥६॥ रेजतुर्जाह्नवीवीचिसोदरे चारुचामरे। हंसाविवानुधावन्तौ स्वामिनो मुखपङ्कजम्॥७॥ आर्वभूवानुवपुस्तदा भामण्डलं विभोः। खद्योतपोतवद्यस्य पुरा मार्तण्डमण्डलम् ॥८॥प्रतिध्वानैश्चतस्रोऽपि दिशो मुखरयन् भृशम् । अम्भोद इव गम्भीरो दिवि दयान दुन्दुभिः।।९।। अधोवृन्ताः सुमनसो विष्वग्ववृषिरे सुरैः । शान्तीभूते जने त्यक्तान्यखाणीव मनोभुवा ॥ १०॥ पञ्चत्रिंशदतिशयान्वितया भगवान् गिग । त्रैलोक्यानुग्रहायाथ प्रारेभे धर्मदेशनाम् ॥ ११ ॥ भगवत्केवलज्ञानोत्सवं चारा अचीकथन् । भरतस्य तदा चक्ररत्नमप्युदपद्यत ॥१२॥ उत्पन्न केवलस्तात इतश्चक्रमितोऽभ्यगात् । आदौ करोमि कस्यार्चामिति दध्यौ क्षणं नृपः ॥ १३ ॥क विश्वाभयदस्तातः क चक्रं प्राणिघातकम् । विमृश्येति स्वामिपूजाहेतोः स्वानादिदेश सः॥ १४ ॥ सूनोः परीषहोदन्तदुःखाश्रुत्पन्नदृगुजम् । मरुदेवामथोपेत्य नत्वा चासौ व्यजिज्ञपत् ॥१५ ।। आदिशः सर्बदापीदं यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः सहते वारिविद्रवम् ।। १६ ।। हिमत्तौं हिमसम्पातपरिल्केशवशां दशाम् । अरण्ये मालतीस्तम्ब इव याति निरन्तरम् ॥ १७॥ उष्ण वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चानुभवति स्तम्बेरम इवाधिकम् ॥१८॥ तदेवं सर्वकालेषु वनवासी निराश्रयः । पृथग्जन इवैकाकी वत्सो मे दुःखभाजनम् ॥१९॥ त्रैलोक्यस्वामिताभाजः स्वसनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वारोहयामास तां गजे
॥४ou