________________
योगशास्त्रम्
योगमाहात्म्यम्
ऋषभो भगवान् साक्षादद्य दृष्टस्त्वमार्षभे । अज्ञानाद्योधितोऽस्माभिः कुलस्वामिन् सहस्व तत् ॥४५॥ किरीट इव नो मूर्ध्नि मण्डनं तब शासनम् । कोशो वपुरपत्यानि सर्वमन्यच्च तावकम् ॥४६॥ भक्तिगर्भमिति प्रोच्य भरतेशाय दत्तवान् । विनम्रो विनमिर्नारीरत्नं रत्नोच्चयं नमिः ॥४७॥ ततो राज्ञा विसृष्टौ तौ राज्यान्यारोप्य मनुषु । विरक्तावृषभेशांहिमूले जगृहतुव्रतम् ॥४८॥ ततोऽपि चलितवतश्चक्ररत्नस्य पृष्ठतः । गच्छन्नासादयामास राजा मन्दाकिनीतटम् ॥४९॥ उत्तरं निष्कुटं गारगं सुषेणोऽप्यभिषेणयन् । तरसा साधयामास किमसाध्य महात्मनाम् ॥५०॥राजाप्यहमभक्तेन गङ्गादेवीमसाधयत् । आनर्च भरतं सापि देवता रुपायनैः ॥५१॥ ततो गङ्गानदीकूले कमलामोदमालिनि । वासागार इवोवास वसुमत्येकवासवः ॥५२॥ भरतं रूपलावण्यकिङ्करीकृतमन्मथम् । तत्रावलोक्य गङ्गापि प्राप क्षोभमयी दशाम् ॥५३॥ विराजमाना सर्वाङ्ग मुक्तामयविभूषणैः । वदनेन्दोरनुगतैस्तारैस्तारागणेरिव ॥५४॥ वस्त्राणि कदलीगर्भत्वक्सगर्भाणि विभ्रती । स्वप्रवाहपयांसीव तद्रूपपरिणामतः ॥५५॥ रोमाञ्चकञ्चकोदश्चत्कुचस्फुटितकञ्चका । सद्यस्तरङ्गितापाङ्गा गङ्गा भरतमभ्यगात् ॥५६॥ (त्रिभिविशेषकम्) प्रेमगद्गदवादिन्या गाढमभ्यर्च्य पार्थिवः। रिरंसमानया निन्ये तया निजनिकेतनम्।।५७।। भुञ्जानो विविधान् भोगांस्तया सह महीपतिः । एकाहमिव वर्षाणां सहस्त्रं सोऽत्यवाहयत् ॥५८॥ गुहां खण्ड प्रपाताख्यामखण्डितपराक्रमः । ततः स्थानान्नृपः प्राप करटीव वनाद्वनम् ॥५९॥ कृतमालकवत्तत्र नाटयमालमसाधयत् । अष्टमेन नृपस्तद्वत्तस्य चाष्टाह्निकां व्यधात् ॥६०॥ सुषेणोद्घाटितद्वारकपाटां तां गुहां नृपः । प्रावि शदक्षिणं तस्या द्वारमुज्जघटे स्वयम् ॥६१॥ निर्ययौ तद्गुहामध्यात्केशरीव नरेश्वरः । स्कन्धावारं च निदधे
॥४८॥