________________
योगशाखम्.
योगमाहात्म्यम्
॥४९॥
गाङ्गे रोधसि पश्चिमे ॥६२॥ नवापि निधयो नागकुमाराधिष्ठितास्तदा । गङ्गाकूलमनुप्राप्तं राजानमुपतस्थिरे ॥६३॥ इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग भवद्भाग्यवंशीकृताः ॥६॥ यथाकाममविश्रान्तमुपभुइक्ष्व प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ न तु क्षीयामहे वयम् ॥६५॥ सहसैनवभिर्यक्षः किङ्करैरिव तावकैः । आपूर्यमाणाः सततं चक्राष्टकप्रतिष्ठिताः ॥६६॥ द्वादशयोजनायामा नवयोजनविस्तृताः । भूमध्ये सञ्चरिष्यामो देव त्वत्पारिपार्श्विकाः ॥६७॥ (युग्मम् ) सेनापति सुषेणोऽपि गङ्गादक्षिणनिष्कुटम् । महावनं महावायुरिवोन्मूल्य समाययो ॥६८॥ समासहसः षष्टयैवं जित्वा षटूखण्डमेदिनीम् । चक्रमार्गानुगोऽयोध्यां जगाम जगतीपतिः ॥६९॥ ततो द्वादशभिर्व - रागत्यागत्य पार्थिवैः । प्रचक्रे चक्रवर्तित्वाभिषेको भरतेशितुः ॥ ७० ॥ कुर्वता स्वकुटुम्बस्य सारं च ददृशे कृशाम् । सुन्दरीं चास्थिभूतां च चुकोप भरतेश्वरः ॥ ७१ ।। ऊचे प्राहरिकान् किं रे मद्गेहे नास्ति भोजनम् यदेवमीदृशी जाता अस्थिचर्ममयी कथम् ॥७२॥ स्वामिन् विजययात्राभूत्तव तावत्प्रभृत्यपि । आचामाम्लान्यविश्रान्तमकार्षीत्सुन्दरी यतः ॥७३ ॥ अत्रान्तरे च भगवान् विहृत्य वसुधातले । भगवान् समवासादिष्टापदगिरौ ततः ॥ ७४ ।। श्रुत्वा च भरताधीशः स्वामिवन्दनहेतवे । आगात्तद्देशनां श्रुत्वा व्रतं जग्राह सुन्दरी ॥ ७५ ॥ भ्रातृननागतान् ज्ञात्वा तस्मिन्नपि महोत्सवे । तेषामेकैकशो दृतान् प्राहिणोद्भरतेश्वरः ॥ ७६ ॥ राज्यानि चेन्समीहध्वे सेवध्वं भरतं ततः। दुतैरित्युदिताः सर्वेऽप्यालोच्यैवावदन्निदम् ।। ७७ ॥ विभज्य राज्य दत्तं नस्तातेन भरतस्य च । संसेव्यमानो भरतोऽधिकं किं नः करिष्यति ॥ ७८ ॥ समापतन्तं कि काले कालं
॥४९॥