________________
योगशास्त्रम् ॥५०॥
योगमाहात्म्यम्
प्रस्खलयिष्यति । किं जराराक्षसी देहग्राहिणीं निग्रहीष्यति ॥ ७९ ॥ बाधाविधायिनः कि वा व्याधिव्याधान् हनिष्यति । यथोत्तरं वर्द्धमानां तृष्णां वा दलयिष्यति ॥८॥ ईदृसेवाफलं दातुं न चेद्भरत ईश्वरः । मनुष्यभावे सामान्ये तहि कः केन सेव्यताम् ॥८१।। प्राज्यराज्योऽप्यसन्तोषादस्मद्राज्यं जिघृक्षति । स्थाम्ना चेत्तद्वयमपि तस्य तातस्य सूनवः ।। ८२ ।। अविज्ञपय्य तातं तु सोदर्येणाग्रजन्मना । दुत त्वत्स्वामिना योधुं न वयं प्रोत्सहामहे ॥ ८३ ॥ ते दृतानभिधायैवमृषभस्वामिनं ययुः । नत्वा भरतसदिष्टं तच्च सर्व व्याजिहापन् ॥८४॥ अम्लानकेवलादर्शसंक्रान्ताशेषविष्टपः । कृपावान् भगवानादिनाथोऽपीत्यादिदेश तान् ॥ ८५ ॥ अनेकयोनिसम्पातानन्तबाधानिबन्धनम् । अभिमानफलेवेयं राज्यश्रीः सापि नश्वरी ॥ ८६ ॥ किश्च या स्वःसुखस्तृष्णा नाटयत्प्राग्भवेषु वः । साङ्गारकारकस्येव मर्त्य भोगैः कथं त्रुटेत् ॥ ८७ ।। अङ्गारकारकः कश्चिदादाय पयसो दृतिम् । जगाम कर्तुमङ्गारानरण्ये रीणवारिणि ॥८८॥ सोऽङ्गारानलसन्तापान्मध्यहातपपोषितात् । उद्भतया तृपाक्रान्तः सर्च दृतिपयः पपौ ॥ ८९ ॥ तेनाप्यच्छिन्नतृष्णः सन् सुप्तः स्वप्ने गृहं गतः। आलूकलशनन्दानामुदकान्यभितोऽप्यपात् ॥ ९० ॥ तज्जलैरप्यशान्तायां तृष्णायामग्नितैलवत् । वापीकूपतडागानि पायंपायमशोषयत् ।। ९१ ।। तथैव तृषितोऽथापात्सरितः सरितां पतीन् । न तु तस्य तृपादृटयनारकस्येव वेदना ।। ९२ ।। मरुकूपे ततो यातः कुशपूलं स रज्जुभिः । बध्ध्वा चिक्षेप पयसे किमार्त्तः कुरुते न हि ॥ ९३ ॥ दूराम्बुत्वेन कृपस्य मध्येऽपि गलिताम्बुकम् । निश्चोत्य पूलं द्रमकः स्नेहप्रोतमिवापिबत् ।। ९४ ॥ न च्छिन्ना यार्णवाद्येस्तृट् छेद्या पूलाम्भसा न सा । तद्वद्वः स्वः सुखाच्छिन्ना छेद्या राज्यश्रिया किमु ॥९५|| अमन्दानन्दनिःस्यन्दिनिर्वाणप्राप्तिकार
(१) तत्स्वरूपं व्यजिज्ञपन् ।
तृषाक्रान्तः सर्व कामगारानरण्ये राणवासियभोगैः कथं जुटेत गारवरी ॥ ८६ ॥ किञ्च
१५०॥