________________
योगशास्त्रम्
योगमाहात्म्यम्
॥५१॥
णम् । वत्साः संयमराज्य तद्युच्यते वो विवेकिनाम् ॥९६।। तत्कालोत्पन्नवैराग्यवेगा भगवदन्तिके । तेऽष्टानवतिरप्याशु प्रवज्यां जगृहुस्ततः॥९७।। अहो धैयमहो सत्त्वमहो वैराग्यधीरिति । चिन्तयन्तस्तत्स्वरूपं दूता राज्ञे व्यजिज्ञपन् ॥९८ तत् श्रुत्वा भरतस्तेषां राज्यानि जगृहे स्वयम् । लाभाद्विवादितो लोभो राजधर्मो ह्यसौ सदा||९९।। अथ विज्ञपयामास सेनानीभरतेश्वरम् न चक्रं चक्रशालायां विशत्यद्यापि नः प्रभो ॥४०॥ स्वामिन् दिग्विजये कश्चिदाज्ञाबाह्यो नृपः कचित् । विवर्त्तते डोल इव घरट्टे भ्रमति प्रभो ॥१॥आ ज्ञातं भरतोऽवादील्लोकोत्तरपराक्रमः। अस्मदन्धुर्महाबाहुरेको बाहुबलिबली ॥२॥ एकतो गरुडश्चैकोऽन्यतोऽप्यहिकुलानि च । मृगारिको यत्कुर्यात्कुर्यान्मृगकुलं न तत् ॥३॥ एकतः संहताः सर्वे देवदानवमानवाः। तथान्यतो बाहुबलि: प्रतिमल्लो न विद्यते ॥४॥ एकतश्चक्रशालायां चक्रं न प्रविशत्यदः । नेच्छत्याज्ञामन्यतो (मितो) बाहुः सङ्कटे पतितोऽस्म्यहम् ॥५॥ किंवा बाहुबलिः सोऽयमाज्ञा कस्यापि मन्यते । सहते नाम पर्याणं केसरी किं कदाचन ॥६॥ एवं विमृशतस्तस्य सेनानीजगदे ह्यदः । स्वामिस्त्वद् (स्तव ब) लस्याग्रे गेलोक्यं च तृणायते ॥७॥वैमात्रेयं कनीयांसमथ बाहुबलिं प्रति । दृतं तक्षशिलापुर्य्या प्रेषयामास पार्थिवः ॥८॥ शैलश्रृङ्गे सिंहमिवोत्तुङ्गसिहासने स्थितम् । नत्वा बाहुबर्षि दुतो युक्तिस्यूतमवोचत ।।६॥ त्वमेकः श्लाध्यसे यस्य ज्येष्ठो भ्राता जगज्जयी । षट्खण्डभरताधीशो लोकोत्तरपराक्रमः॥१०॥ त्वद्भातुश्चक्रवर्त्तित्वाभिषेके के महीभुजः । मङ्गल्योपायनकराः करदीभूय नाययुः ॥११॥ सूर्योदय इवाम्भोजखण्डस्य भरतोदयः । श्रिये तवैव किन्त्वस्याभिषेके न त्वमागमः॥१२।। ततः कुमार भवतोऽसमागमनकारणम् । ज्ञातुं राज्ञा नयज्ञेनाज्ञापितोऽहमिहागमम् ॥१३॥ नागा यद्यार्जवेनापि तत्र कोऽपि जनः पुनः । तवाविनीततां