________________
योगशाखम्
योगमाहात्म्यम्
॥५२॥
ते यच्छिद्रान्वेषिणः खलाः ॥१४॥ पिशुनानां प्रवेशं तद्यत्नागोपयितुं तव । आगन्तुं युज्यते तत्र का त्रपा स्वाम्युपासने ॥१५॥ भ्रातेति यदि निर्भीको नागास्तदपि नोचितम् । आज्ञासारा न गृह्यन्ते ज्ञातेयेन महीभुजः ॥१६॥ अयस्कान्तैरिवायांसि देवदानवमानवाः । कृष्टास्तेजोभिरधुना ह्यकं भरतमन्वगुः ॥१७॥ यम - सनदानेन वासवोऽपि सखीयति । सेवामात्रेण तं हन्तानुकूलयसि किं नहि ॥१८॥ वीरमानितया यद्वा राजानमवमन्यसे त्वं हि तस्मिन् ससैन्योऽपि समुद्रे सक्तुमुष्टिवत् ॥१९॥ लक्षाश्चतुरशीतिस्तद्गजाः शक्रेभसन्निभाः । सह्याः केनाभिसर्पन्तः पर्वता इवा जङ्गमाः ॥२०॥ तावतोऽश्वान् रथांचास्य विष्वक प्लावयतो महीम् । कल्लो लानिव कल्पान्तोदधेः कः स्खलयिष्यति ॥२१॥ तस्य षण्णवतिग्रामकोटिभर्तः पदातयः । कोट्यः षण्णवतिः सिंहा इव त्रासाय कस्य न ॥२२॥ एकः सुषेणसेनानीर्दण्डपाणिः समापतन् । कृतान्त इव कि शक्यः सोढुं देवासुरैरपि ॥२३॥ अमोघं बिभ्रतश्चक्रं चक्रिणो भरतस्य तु । सूर्यस्यैव तमस्तोमः स्तोकिकैव त्रिलोक्यपि ॥२४॥ तेजसा वयसा ज्येष्ठो नृपश्रेष्ठः स सर्वथा । राज्यजीवितकामेन सेव्यो बाहुबले त्वया ॥२५॥ अथ बाहुबलिर्बाहुबलापास्तजगदलः । ऊचे भ्रूभगभृद्वीरध्वानोऽर्णव इवापरः ॥२६।। युक्तं यदुक्तं भवता लोभेन क्षोभण वचः । दृताः खलु यथावस्थस्वामिवाचिकवाचिनः ॥२७॥ सुरासुरनरेन्द्रायों इन तातोत्तमविक्रमः । श्लाघाहेतुर्मे भरतः कीर्तितो दूत नूतनः ॥२८॥ करदीभूय भूपाला नागच्छन्तु कथं नु तम् । दृश्यते न त्वसौ यस्य भ्राता बाहुबलिबली ॥२९॥ आवयोर्ननु मार्तण्डपङ्गरुट्खण्डयोरिख । किं न स्याव्यवहितयोरपि प्रीतिः परस्परम् ॥३०॥ सदा मनसि तिष्ठामस्तस्य भ्रातुरहो वयम् । गत्वा किमतिरिच्येत प्रीतिनैसर्गिकी हि नः
(१) न तातो न च विक्रमः ।
॥५२॥