________________
योगशास्त्रम्
योगमाहात्म्यम्
॥५३॥
॥३१॥ आर्जवानागताः सत्यं कौटिल्यं भरतेन किम् । विमृश्यकारिणः सन्तो यन्ते कि खलोक्तिभिः॥३२॥ एक एवाबयोः स्वामी भगवानादितीर्थकृत् । तस्मिन्विजयिनि स्वामी कथङ्कारं ममापरः ॥३२॥ भ्रातास्म्यभीः स चाज्ञेश आज्ञापयतु यद्यलम् । ज्ञातिस्नेहेन किं वज्र वज्रेण न विदायते ॥३४॥ सुरासुरनरोपास्त्या प्रीतोऽस्त्वेष मयास्य किम् । मार्ग एव क्षमः स्तम्बे रथः सज्जोऽपि भज्यते॥३५॥ तातभक्तो महेन्द्रश्चज्ज्येष्ठं तं तातनन्दनम् । आसयत्यासनस्याः स किं तेनापि दृप्यति ॥३६॥ तेऽन्ये तस्मिन् समुद्रे ये ससैन्याः सक्तुमुष्टिवत् । तेजोभिर्दुःसहोऽहं तु हन्त स्यां वडवानलः ॥३७॥ पत्तयोऽश्वा रथा नागाः सेनानीर्भरतोऽपि च । मयि सचे प्रलोयन्तां तेजांसीवाकतेजसि ॥३८॥ याह दुत स एवैतु राज्यजीवितकाम्यया । तातदत्तशितुष्टेन मयैवोपेक्षितास्य भूः ||३९॥ दृतेनागत्य विज्ञप्ते यथार्थे तेन तत्क्षणम् । युयुत्सुर्बाहुबलिना भरतोऽथाभ्यषेणयत् ॥४०॥ छादयन्मेदिनीं सैन्यैर्घनत्ता घनैरिव । महाबाहुस्ततो वाहुबलिर्भरतमभ्यगात् ॥४१॥ उभयोरपि वाहिन्योर्महासुभटयादसोः। आन्योऽन्यास्फालिताखोम्मिः सम्फेटोऽभृद्भयानकः ॥४२॥ तत्सैनिकानामन्योऽन्यं कुन्ताकुन्तिशराशरि । आमन्त्रितश्राद्धदेवः प्रावर्तत रणक्षणः ॥४३।। पर्यस्याशेषसैन्यानि तूलानीव महाबलः । अभ्येत्य भरत बाहुबलिरेवमवोचत ॥४४॥ हस्त्यश्वपत्तिघातेन कि मुधा पापदायिना । यद्यलं तत्त्वमेकाकी युद्धद्यस्वैकाकिना मया ॥४५॥ एकाङ्गाजि प्रतिज्ञाय द्वाभ्यामपि निवारिताः । सैनिका उभयेऽप्यस्थुः पश्यन्तः साक्षिणो यथा ॥४६॥ ततो दृग्युद्ध आरव्धे निर्निमेषविलोचनौ । देवैरपि नृदेवौ तौ देवाविति वितकितौ ॥४७॥ भरते निर्जिते तत्र साक्षीभूतामरं तयोः वाग्युद्धमभवत्पक्षप्रतिपक्षपरिग्रहात् ॥४८॥ तत्रापि हीनवादित्वं भरते
(१) सभ्यीभूतामरं तयोः
॥५३॥
DATE