________________
योग
शास्त्रम्
॥५४॥
समुपेयुषि । भृभुजौ भुजयुद्धेन युयुधाते महाभुजौ ॥ ४९ ॥ भरतो लम्बमानोऽथ बाहौ बाहुबलेः स्थिरे । शाखा मृगो महाशाखिशाखायामिव वीक्षितः ॥ ५० ॥ भरतस्य महाबाहोरपि बाहुबलिर्बली । एकेन बाहुना बाहुं लतानालमनामयत् ॥ ५१ ॥ प्रारब्धे मुष्टियुद्धेऽथ पेतुर्भरतमुष्टयः । बाहुबलौ समुद्रोम्मिघाता इव तटाचले ||५२ || आहतो बाहुबलिना वज्रकल्पेन मुष्टिना । पपात भरतः पृथ्व्यां स्वसैन्याऽश्रुजलैः सह ॥५३॥ मूर्च्छान्ते भरतो बाहुबलिं दण्डेन दर्पितः । ताडयामास दन्तीव तिर्यग्दन्तेन पर्वतम् ॥५४॥ दण्डेन बाहुबलिना निहतो भरतस्ततः । भूम्यामाजानुमग्नोऽस्थानिखात इव कीलकः || ५५|| किमेष चक्रवर्त्तीति भरतः कृतसंशयः। यावत्संस्मृतवांश्चक्र तावदागात्करेऽस्य तत् ||५६|| भूमेर्निःसृत्य कोपेन महता भरतेश्वरः । चिक्षेप प्रज्वलच्चक्रं कृताहारखं बलैः ॥५७॥ तच्चक्रं पार्श्वतो बाहुवलेर्भ्रान्त्वा न्यवर्त्तत । दैवतानि हि शस्त्राणि स्वगोत्रे प्रभवन्ति न ||५८ || अक्षत्रं प्रेक्ष्य तद्बाहुबलिः कोपारुणेक्षणः । सचक्रं चूर्णयाम्येनमिति मुष्टिमुद क्षिपत् ॥ ५९ ॥ असाविव कषायैधिगहं भ्रातृवधोद्यतः । विजित्य करणग्रामं कषायानेव हन्मि तान् ॥ ६० ॥ इति सञ्जातसंवेग स्तदा तेनैव मुष्टिना । केशानुत्पाटयामास सामायिकमथाददे || ६१|| साधु साध्विति सानन्दं व्याहरन्तः सुरा सुरा । उपरिष्टाद्वाहुबलेः पुष्पवृष्टि वितेनिरे ॥ ६२ ॥ गत्वा भगवतः पार्श्वे ज्ञानातिशयशालिनाम् । कनीयसां सोदराणां विधास्ये वन्दनां कथम् || ६३ || उत्पन्नकेवलज्ञानस्ततां यास्यामि पर्षदम् । इति तत्रैव मौनेन सोऽस्थाप्रतिमया कृती ||६४ || ( युग्मम्) भरतस्तं तथा दृष्ट्वा विचार्य स्वं कुकर्म च । बभूव न्यश्चितग्रीवो विविक्षुरिव मेदिनीम् ||६५ || शान्तरसं मूर्त्तमिव भ्रातरं प्रणनाम च । नेत्रयोरथुभिः कोष्णैः कोपशेषमिवोत्सृजन् ॥६६॥
योगमाहात्म्यम्
॥५४॥