________________
योगशास्त्रम्
योगमाहात्म्यम्
॥५५॥
प्रणमन् भरतस्तस्याऽधिकोपास्तिविधित्सया । नखादशेषु संक्रान्त्या नानारूप इवाभवत् ॥६७॥ सुनन्दानन्दनमुनेगुणस्तवनपूर्विकाम् । स्वनिन्दामित्यथाकार्पोत्स्वापवादगदौषधीम् ॥६८॥ धन्यस्त्वं तत्यजे येन राज्यं मदनुकम्पया । पापोऽहं यदसन्तुष्टो दुर्मदस्त्वामुपाद्रवम् ॥६९।। स्वशक्तिं ये न जानन्ति ये चान्यायं प्रकुर्वते । जीयन्ते ये च लोभेन तेषामस्मि धुरन्धरः ॥७०॥ राज्यं भवतरोर्वीजं ये न जानन्ति तेऽधमाः। तेभ्योऽप्यह विशिष्ये यत्तदमुश्चन विदन्नपि ॥ ७१ ॥ त्वमेव पुत्रस्तातस्य यस्तात पथमन्वगः । पुत्रोऽहमपि तस्य स्यां चेद्भवामि भवादृशः ॥ ७२ ॥ विषादपङ्कमुत्साय पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं तद्राज्ये स न्यवीविशत ॥ ७३ ॥ तदादिसोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् ॥ ७४ ॥ ततो बाहुबलिं नत्वा भरतः सपरिच्छदः । पुरिमयोध्यामगमत्स्वराज्यश्रीसहोदराम् ॥ ७५ ॥ दुस्तपं तप्यमानोऽथ ततो बाहवलिर्मुनिः । वर्षमेकं व्यतीयाय सह प्राग्जन्मकर्मभिः ॥ ७६ ॥ ततश्चामूढलक्ष्येण स्वामिना नाभिसूचना । ब्राह्मी च सुन्दरी चानुज्ञाते तत्पाश्चमीयतुः ॥७७॥ ऊचतुश्च महासत्व समस्वर्णाश्मनस्तव । न युक्तं त्यक्तसङ्गस्य करिस्कन्धाधिरोहणम् ॥७८॥ एवम्भूतस्य ते हन्त कथं ज्ञानं प्ररोहति । अधःस्थितकरीषाग्नेः पादपस्येव पल्लवः ॥७९॥ आत्मनैव विचार्य त्वात्तितीर्घर्भवोदधिम् । हस्तिनोऽस्मादवतर तरण्डादायसादिव ॥८०॥ ततोऽसौ चिन्तयामास कुतस्त्यो हस्तिसङ्गमः । पादपारोहमारूढवल्लीकवपुषो मम ॥८१।। त्यजेन्मुद्रां समुद्रोऽपि चलेयुरचला अपि । इमे तु भगवच्छिष्ये भाषेते न मृषा कचित् ॥८२॥ आः ज्ञातमथवाऽस्त्येष मान एव मतङ्गजः । स एव मे ज्ञानफलं बभञ्ज विनयद्रुमम् ॥८३॥ कथं कनीयसो भ्रातृन्वन्दे
॥५५॥