________________
योगशास्त्रम्
॥५६॥
धिगिति चिन्तितम् । तपसा ज्यायसां तेषां मिथ्यादुष्कृतमस्तु मे ॥ ८४ ॥ सुरासुरनमस्यस्य गत्वा भगवतोऽन्तिके । वन्दे कनिष्टानपि तांस्तच्छिष्यपरमाणुवत् ||८५|| अचलत्पादमुत्पाटय यावत्तावदसौ मुनिः । अवाप केवलज्ञानं द्वारं निर्वाणवेश्मनः ||८६|| करामलकवद्विश्वं कलयन् केवलश्रिया । समीपे स्वामिनोऽध्यास्त सदः केवलभास्वताम् ||८७|| भरतोऽपि महारत्नैश्चतुर्द्दशभिराश्रितः । चतुःषष्टिसहस्त्रान्तःपुरो नवनिधीश्वरः ॥८८॥ धर्म्मार्थकामान् सम्राज्यसम्पदल्ले: फलोपमान् । परस्पराविरोधेन यथा कालमसेवत ॥८९ अन्यदा विहरन स्वामी जगामाष्टापदाचलम् । भरतोऽपि ययौ तत्र स्वामिपादान्विवन्दिषुः ॥९०॥ सुरासुरार्च्य समवसरणस्थं जगत्पतिम् । स त्रिः प्रदक्षिणीकृत्य नमस्कृत्येति तुष्टुवे ॥ ९१ ॥ विश्वासमिव मूर्तिस्थं सद्वृत्तमिव पिण्डितम् । प्रसादमिव निःशेषजगतामेकतः स्थितम् ॥९२॥ ज्ञानराशिमिवाध्यक्षं पुण्यस्येव समुच्चयम् । सर्वलोकस्य सर्वस्वमिवैकत्र समाहृतम् ॥९३॥ वपुःस्थं संयममिवोपकारमिव रूपिणम् । शीलमिव पादचारि क्षमामिव वपुष्मतम् ||१४|| रहस्यमित्र योगस्य विश्ववीर्यमिवैकगम् । सिद्धयुपायमिवावन्ध्यं कौशल्यमिव केवलम् ॥९५॥ मैत्रीमिव मूर्त्तिमतीं सदेहां करुणामिव । मुदितामिव पिण्डस्थामुपेक्षामिव रूपिणीम् ॥९६॥ तपः प्रशमसज्ज्ञानयोगमेकमिवाहृतम् । साक्षाद्वैनयिकमिव सिद्धिं साधारणीमिव ॥ ९७॥ व्यापकं हृदयमिव सर्वासां श्रुतसम्पदाम् नमःस्वस्तिस्वधास्वाहावषडर्थमिवापृथक् ||१८|| विशुद्धधर्मनिर्माण प्रकर्षमिव केवलम् । समस्ततपसां पिण्डीभूतं फलमिवाखिलम् ॥ ९९ ॥ परभागमिवाशेषगुणराशेरनश्वरम् । उपन्नमिव निर्विघ्नं श्रेयो निःश्रेयसश्रियः ||५०० || प्रभावस्यैकधामेव मोक्षस्य प्रतिमामिव । कुलवेश्मेव विद्यानां फलं सर्वाशिषामिव ॥१॥ आर्यवर्य
योगमाहात्म्यम्
॥५६॥