________________
योगशास्त्रम्
योगमाहात्म्यम्
॥५७॥
चरित्राणामात्मदर्शमिवामलम् । कूटस्थं प्रशममिव जगतो दत्तदर्शनम् ॥२॥ दुःखशान्तेरिव द्वारं ब्रह्मचर्यमिवोज्वलम् । पुण्यरुपनतं जीवलोकस्येवैकजीवितम् ॥३॥ मृत्युव्याघ्रमुखादेतदाक्रष्टुमखिलं जगत् । बाहुं प्रसारितमिव निर्वाणेन कृपालुना ॥४॥ ज्ञानमन्दरसंक्षुब्धज्ञेयाम्भोधेः समुत्थितम् । अपरं पीयूषमिव देहभाजाममृत्यवे ॥५॥ विश्वाभयप्रदानेन समाश्वासितविष्टपम् । शरणं त्वां प्रपन्नोऽस्मि प्रसीद परमेश्वर ॥६॥ तत्र च त्रिजगन्नाथमृषभस्वामिनं ततः । एकाग्रमनसोपासाश्चक्र चक्रधरश्चिरम् ।।७।। अथाद्रौ तत्र साधनां सहखेर्दशभिर्वृतः । दीक्षाकालाद्गते पूर्वलक्षे मोक्षं ययौ प्रभुः ॥८॥ तदा निर्वाणमहिमा १चक्रं शक्रादिभिः सुरैः । अस्तोकशोकः शक्रण भरतेशोऽप्यबोध्यत ॥९॥ चक्रेऽथ २भरतो रत्नमयमष्टापदोपरि । सिंहनिषद्याप्रासादमष्टापदमिवापरम् ॥१०॥ तत्र च स्वामिनो मानवर्णसंस्थानशोभितम् । रत्नोपलमयं बिम्बं स्थापयामास चक्रभृत् ॥११॥ स्वामिशिष्टत्रयोविंशभावितीर्थकृतामपि । यथावन्मानसंस्थानवर्णविम्बान्यसूत्रयत् ॥१२॥ भ्रातृणां नवनवतेरपि तत्र महात्मनाम् । रचयामास रत्नाश्मस्तूपाननुपमान्तृपः ॥१३॥ पुनरेत्य निजां राजधानी राजशिरोमणिः । यथावदाज्यमशिषत्प्रजारक्षणदीक्षितः ॥१४॥ स कमभिर्भोगफलैः प्रेर्यमाणो निरन्तरम् । बुभुजे विविधान्भोगान् साक्षादिव दिवस्पतिः ॥१५॥ नेपथ्यकर्म निर्मातुमपरेधुरगादसौ । मध्ये शुद्धान्तनारीणां ताराणामिव चन्द्रमाः ॥१६॥ तत्र सर्लाङ्गविन्यस्तरत्नाभरणबिम्बितैः स्त्रीजनैयुगपत्प्रेम्णा परिरब्ध इवाभक्त् ॥१७॥ पश्यन्नसौ स्वमादर्शेऽपश्यत्वस्ताङ्गुलीयकाम् । अङ्गुलिं गलितज्योत्स्नां दिवा शशिकलामिव ॥१८॥ ततः
(१) प्रभोश्चक्रे मुरामुरैः । (२) ततोऽसौ विदधे ।
॥५७॥